________________
।।३३५॥
न नैव भवति सस्य-धान्यं तथा 'धर्मबीजविरहे धर्मबीजानां-सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां परिहारे न सुषमायामपि समा नाम कालविभागः सुष्ठु-तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुषमा तस्यां, किं पुनरितरसमासु दुष्षमादिलक्षणास्वित्यपिशब्दार्थः, तत् सस्य-स एव धर्म एव विषयाकांक्षाबुभुक्षाक्षयावहत्वेन सस्यं भवतीति । यथोक्तम् "नाकारणं भवेत् कार्य नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात, कार्यकारणयोः कचित् ॥१॥" ॥२२४॥
यस्मादेवं ततः किं कर्त्तव्यमित्याह ;आणापरततेहिं ता बीजाधाणमेत्थ कायव्वं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥२२५।। ___ आज्ञापरतंत्रीः-सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् बीजाधानं-जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिलक्षणम् अत्र-प्रस्तुते कर्त्तव्यं धर्मे-साध्यत्वेनाभिमते सति यथाशक्ति-स्वसामर्थ्यानुरूपं परमसुखम्-एकान्तिकात्यन्तिकानन्दसंदोहमयं शर्म इच्छद्भिः-वाञ्छद्भिरिति । धर्मबीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते-यथा “जिनेषु कुशलं चित्तं, तन्नमस्कार एव च । प्रणामादि च संशुद्ध, धर्मबीजमनुत्तमम् ॥१॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्ध होतदीदृशम् ॥२॥ आचार्यादिष्वपि होतद्विशुद्धं भावयोगिषु । यावृत्त्यं च विधिवच्छद्धाशयविशेषतः ॥३॥ भवोद्वेगश्च सहजो, द्वव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च॥४॥ लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः। प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥५॥ दुःखितेष