SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ कप्पेऽतीते तक्किरियजोगया फासिया महागिरिणा। तह गच्छपालणेणं सुहत्थिणा चेव जतितव्वं ॥२२॥ कल्पे-जिनकल्पे जम्बूनाममहामुनिकालव्यवच्छिन्नत्वेनातीते सति तत् क्रियायोग्यता-जिनकल्पानुकाररूपा स्पृष्टानिषेविता महागिरिणा। तथेति पक्षान्तरोपक्षेपार्थः । गच्छपालनेन-सारणावारणादिना गच्छानुग्रहकरणरूपेण सहस्तिना च तक्रियायोग्यता स्पृष्टा । सम्यकपरिपालितगच्छो हि पुमान् जिनकल्पयोग्यो भवतीति गच्छपरिपालनमपि परमार्थतो 1३३३॥ जिनकल्पयोग्यतैवेति । निगमयन्नाह-एवेत्यनुस्वारलोपादेवं-भणितपुरुषन्यायेन यतितव्यम् उद्यमः कार्यः सर्वप्रयोIPS जनेषु ॥२२शा सम्प्रतीत्थं प्रवृत्तौ फलमाह;एवं उचियपवित्ती आणाआराहणा सुपरिसुद्धा । थेवावि होति बीयं पडिपुन्नाए ततीए उ ॥२२२॥ एवम् आर्गमहागिरि-आर्यसुहस्तिन्यायेन उचितप्रवृत्तिः-स्वावस्थोचितानुष्ठानारम्भरूपा, आज्ञाराधनाद्-अर्हद् वचनानुपालनात् सुपरिशुद्धा-अत्यन्तममलीमसा स्तोकाऽपि-तथाविधकालक्षेत्रादिबलविकलतयाऽल्पापि, किं पुनः प्रभूता; भवति सम्पद्यते बीजम्-उत्पत्तिहेतुः प्रतिपूर्णायाः तस्यास्तु-तस्या एवोचितप्रवृत्तेः, यथा हि शुक्लपक्षप्रवेशात् प्रतिपचन्द्रमा परिपूर्णचन्द्रमण्डलहेतुः सम्पद्यते तथा सर्वज्ञाऽऽज्ञानुप्रवेशात् तुच्छमप्यनुष्ठानं क्रमेण परिपूर्णानुष्ठानहेतुः सम्पद्यत | इति ॥२२२॥ . एतदेव भावयति;
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy