________________
संग्रहगाथा क्षरार्थः
11३३२।।
श्रोउपदे
गुरुसाधनं च-गुरुणा च कथितं तस्य वृत्त भद्रायास्तथा वधूनाम् ॥२१७॥४॥ शपदे
गोसे-प्रत्युषसि तत्र गमनं भद्राया एव सवधूकायाः। तत्र च मृतक्रिया-शरीरसत्कारादिका तस्य विहिता । देशना भवस्वरूपविषया गुरूणाम् आचार्यसुहस्तिनां पुनः प्रवृत्ता। ततः प्रव्रजनं सुभद्रायाः सवधूकायाः सम्पन्नम् । परं न नैवापन्नायाः-आपन्नसत्त्वाया एकस्याः । तस्याः पुत्रो जात इति । अनेनायतनं-देवकुललक्षणं पितृपक्षपातात् तत्र स्थाने कृतमिति ॥२१८।।५।।
एवमाद्य चितक्रमण-एवमादिना सम्प्रति नपति-अवन्तीसुकुमालं प्रतिबोधप्रभृतिना उचितक्रमेण-स्वावस्थोचित प्रवृत्तिरूपेणानेकसत्त्वानां-ग्रामनगरादिषु नानाविधानां भव्यजीवानां चरणादीनि चरणं--चारित्रं देशतः सर्वतश्च, आदिशब्दात् सम्यक्त्वबीजाधानग्रहः, कृत्वा-विधाय तत्तदुपायप्रयोगेण तकोऽपि--आर्यसुहस्तिसूरिरपि गतः- प्राप्तो विधिना पण्डितमरणाराधनरूपेण कालेन-सर्वगच्छप्रयोजननिष्पादनावसानरूपेण सुरलोक-त्रिदशभवनमिति ॥२१९।।६।। ____ अथोपसंहरन्नाह;-द्वयोरपि प्रस्तुताचार्ययोर्न पुनरेकस्यैव, यथायोग्यत्वं निजनिजयोग्यत्वानतिक्रमण तथा-तत्प्रकारा प्रवृत्तिः गच्छप्रतिपालनादिलक्षणा अनेकधा एषा'निरूपितरूपा भणिता पूर्वसूरिभिः, परं निपुणमत्या-सूक्ष्मभोगेन विचा
रयितव्या विमर्शनीया पुनः कुशलेन । अन्यत्राप्युक्तम्-“यस्माद् यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा । प्रारब्धIM व्यमुपायेन, सम्यगेष सतां नयः" ॥१॥२२०॥७॥
योग्यारंभमेवानयोर्भावयति;
।।३३२।।