________________
।।३२५॥
क्षिणी तदक्षिस्थाने नियोजिते । लग्ने च ते । तदनु बोधि:-जिनधर्मावाप्तिर्लब्धप्रत्याख्यानभङ्गप्रत्ययाऽस्य संजाता। नगरं ततश्च-तस्मादेव निमित्तात् तद् दशार्णपुरं एडकाक्षमिति प्रसिद्धम ॥२०८।।६।।
तत्र चैडकाक्षे नगरे दशार्णकटो नाम पर्वत आसीत् । स च गजाग्रपदक इति यथा जातस्तथोच्यते । दशार्णराजे-दशार्णदेशनायके दशार्णभद्रनाम्नि राज्यं पालयति सति वीरे चरमतीर्थपतौ दशार्णकूटे शिखरिणि समवसृते, ऋद्धिः शक्रसम्बन्धिनी यदा दशार्णभद्रेण दृष्टा तदा स्वसमद्धावनादरेण 'बोहण'त्ति बोधनं सर्वचारित्रप्रतिपत्तिलक्षणं संवृत्तं दशार्णभद्रराजस्य । तथा ऐरावणपदसुयोगेन गजाग्रपदक: स पर्वतो रूढः ॥२०९।।७।।
अथ शक्रविभूतिमेव दर्शयति ;-तत्र शक्राध्यासिते ऐरावणे दन्ता अभवन् । तेषु च पुष्करिण्यः, तासु च पद्माः, II तेषु च पत्राणि, अष्टौ अष्टसंख्यया प्रत्येक एकैकं दन्तपुष्करण्यादिकं जातम् । तत्रैकैकस्मिन् पत्रे रम्यप्रेक्षणकं द्वात्रिंशत्पात्रबद्धं दृष्ट्वा नरेन्द्रसंवेगो-दशार्णभद्रराज्यस्य संवेगो जातः। ततस्तत्क्षणादेव प्रव्रज्या समजनीति ॥२१०।८।।
अथ प्रस्तुते योजयन्नाह ;-एतस्मिन् गजाग्रपदकनामके शिखरिणि पुण्यक्षेत्रे शुभकारिणि प्रदेशे तेन-महागिरिणा || सूरिणा कालो देहत्यागलक्षणः कृतः सुविहितेन शुभचरितेन । कुतः ?, यतः ततः-क्षेत्रात् समाधिलाभो जातस्तस्य, अन्येत्वाचार्या आचक्षते-पुनरपि भूयोऽपि तल्लाभात्-समाधिलाभात् तत्र कालः कृतः, ईदमुक्त भवति-तन्न क्षेत्रे लब्धः समाधिः सानुबन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलः सम्पद्यत इति कृत्वा तेन तत्र कालः कृतः ॥२११।।९।।