SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥३२६॥ अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह; तीर्थव्याजस्स जहिं गुणलामा खेत्ते कम्मोदयाइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई ।।२१२।। ख्या. यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभा-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजाग्रपदकादौ जायते । कुत इत्याह-'कर्मोदयादिहेतुतः' कर्मण-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकर्मादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते, कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवादसूचनार्थः, तीर्थं व्यसनसललितरणहेतुः सम्पद्यते, उक्त च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया । दव खेत्तं कालं भवं च भावं च संपप्प ॥१॥" इति अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थं व्याकुर्वते । इहेदमैदंपर्यम्-किल मतुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागा नास्ति यत्रास्मिन् अनाद्यनन्ते काणेऽनन्ता न सिद्धाः, नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थं वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणलाभवांस्तस्य तदेव तीर्थमिति ॥२१२॥ ॥३२६॥ आराहिऊण ततियं सा कालगतो तहिं महासत्तो । वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु ।।२१३॥ आराध्य-आराधनामानीय तृतीयं-'भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायन्वं' इत्यनशनक्रममपेक्ष्य पादपोपगमननामकमनशनविधि सः महागिरिः कालगतस्तत्र-गजाग्रपदके महासत्त्वः-प्रशस्तवीर्यः वैमानिकेषु देवेषु मतिमान् । प्राज्यप्रज्ञाधनप्रधानः उपपन्नो-लब्धजन्मा जातः ऋद्धियुक्तेषु-परिवारादिविभूतिभाजनेषु ।।२१३।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy