SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ।।३२३॥ ****** R KXXXXXXXXXXXXXXX चाल्पलेपस्य वल्लचणकादेर्ग्रहणरूपा चतुर्थी ४, भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भक्तादेग्रहणलक्षणाऽवगृहीता नाम पञ्चमी ५, भोजनभाजननिक्षिप्तलक्षणा प्रगहीता नाम षष्ठी ६, भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमाणस्यात एव वोज्झितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७, तत्र जिनकल्पिक स्याद्याभ्यामेषणाभ्यां भक्तपानयोरग्रह एव, उपरितनीषु पञ्चस्वेषणास योग्यरूपतया ग्रहो वर्त्तते,. परं तास्वपि, एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्तमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्रमसंसट्रा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उझियधम्मा य सत्तमिया ।।१॥" तथा पंचसु गह दोसभिग्गहो भिक्खा' इति । अत्र प्रथमतः संसट्ठपदोपादानं छन्दोभङ्गभयात् तत आसामेषणानां शुद्धि: निर्दोषता आदिशब्दात् “तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुल्लणा पंचहा वुत्ता, जिणकप्पं पडिवज्जउ ॥१॥ इत्येवंरूपतुलनापञ्चकग्रहः, तद्युक्तः सन् वसुभूतिश्रेष्ठिगृहे कारणगतेन-कुटुम्बप्रतिबोधप्रयोजनप्राप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सहस्तिनाऽभ्युत्थानविषयः कृतो विधिना संभ्रमप्रकाशनालक्षणेन ॥२०४॥२॥ *-'सेट्रिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत -अहो ! एभ्य: किं कश्चिद् अयं महान् वर्त्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिसमुच्चये, भिन्नक्रमश्च, ततो बहुमानश्च तत्र जातः श्रेष्ठिनः । 'ठिइसवणुज्झियधम्म' इति स्थितिश्रवणेन-तदीयसमाचाराकर्णनेन भक्तपानक उज्झितधर्मकं प्रवतितम् । ननु वसुभूतिरार्यसुहस्तिसमीपे श्रुतसाधुसमाचारः कथमित्थमनेषणां प्रवतितवानि ik*************** ॥३२३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy