________________
श्रोउपदे- शपदे
संग्रहगाथार्थः
||३२२॥
XXXKKKKKKRXXXKAKKAKKARAN
संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवजेइ ? ||१७२॥ सो सुद्धचरणसंसेवणेण संप- त्तकेवलालीओ। सिवमपुणागममपुणब्भवं च निव्वाणमणपत्तो ॥१७३॥ सुरवारणग्गपयपडिबिंबपभावओ तप्पभी सेलो। सो लोए सव्वत्थवि गयग्गपयनामगा जाओ ॥१७४।। तम्मि पवित्ते खित्ते महागिरी सुत्तवुत्तविहिसारो । काऊण कालमकलंकमुवगओ देवलोगम्मि ।।१७५॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पयट्टियव्वं नियसत्तिमनिण्हवंतेणं ॥१७६।।
॥ नमो नमः शारदायै ।।। अथ संग्रहगाथाक्षरार्थः;- द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य' ति | आदिमो महागिरिः, पुनः इतरम्--आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरूत्वादिकां सामाचारीम् । यथोक्तं धर्मबिन्दौ "वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकरात्र्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वा स्थानं देयनायामप्रबन्धः, ध्यानकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥२०३।।१।।
इहैषणाः सप्त भक्तगोचराः पानगोचराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं च देयद्रव्यं यत्रं सा प्रथमा १, एतद्विलक्षणा द्वितीया २, पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया ३, तस्यैव
।।३२२॥