SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ द ।।३०९॥ एतच्चतदपि मार्गानुसारित्वादि, किं पुनर्गुरुविषयोऽभ्रमः, अस्ति विद्यते लक्षणमस्य माषतुषादेनिःशेषमेव धन्यस्य धर्मधनार्हस्य । किमत्र लिङ्गमित्याह-तथा यथा गुरुसन्निधाने तथैव तदव्यवधानेऽपि गुर्वाज्ञासम्पादनं प्रतिलेखनाप्रमाजनादि साधुसामाचारीपालनरूपं पुनर्गमकं ज्ञापकम । इह मार्गानुसारित्वादौ लिङ्गं चिह्नमिति ॥२००।। ननु चारित्रिणो मोक्ष प्रत्यतिहढानुरागत्वेनात्यन्तादौत्सुक्यादशक्यारम्भोऽपि न दुष्टः स्याद् इत्याशंक्याह;सत्तीए जतितव्वं उचियपवित्तीऍ अन्नहा दोसो । महगिरिअज्जसुहत्थी दिटुंतो कालमासज्ज ॥२०१॥ शक्तौ सामथ्ये चिकीर्षितप्रयोजनानुकले सति यतितव्यं-प्रयत्नः कार्यः, किमविशेषेणेत्याह-'उचितप्रवृत्त्या' तत्त- XI दद्रव्यक्षेत्रकालभावैरबाध्यमानचेष्टरूपया । विपक्षो दोषमाह-अन्यथा उक्तप्रकारद्वयविरहे यत्ने क्रियमाणेऽपि दोषोवन्ध्यचेष्टालक्षण: सम्पद्यते, सफलारम्भसारत्वाद् महापुरुषाणामिति । अत्र 'महगिरि-अज्जमहत्थी' इति आर्यमहागिरिरायसुहस्ती च दृष्टान्तः-उदाहरणं 'कालं' व्यवच्छिन्नपरिपूर्णजिनकल्पाराधनायोग्यजीवं दुष्षमालाणमाश्रित्य, शक्ती सत्यामुचितप्रवृत्त्या यत्ने कर्तव्यतयोपदिश्यमाने इति ॥२०१।। ॥३०९।। एतयोरेव वक्तव्यतां संगृह्णन्नाह ;पाडलिपुत्ति महागिरि अज्जसुहत्थी य सेट्रिवसुभूती । वइदिस उज्जेणीए जियपडिमा एलगच्छं च ॥२०२।। KA पाटलिपुत्रे नगरे 'महागिरि अज्जसुहत्थि'त्ति आर्यमहागिरिरार्यसहस्ती च द्वावाचार्यों कदाचिद् विहारं चक्रतुः । तत्र श्रेष्ठी वसुभूतिरार्यसुहस्तिना सम्बोधितः ततो 'वइदिस'त्ति अवन्ती विषये उज्जयिन्यां 'जियपडिम' त्ति जीवत् ।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy