________________
श्रोउपदे
शपदे
।।३०८!
*
XXXXXNE. TAXXXXX
अन्यदपि चारित्रिलक्षणमत्र योजयितुमिच्छुराह
चारित्रिलमग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सक्कारंभसंगओ जो तमाहु मुणि ।।१९९।।
क्षणानि मार्ग तत्त्वपथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारी, निसर्गतस्तत्रानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात् ।। एतच्च तत्त्वावाप्ति प्रत्यवन्ध्यं कारणम् , कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्तान्धस्येव । तथा, श्राद्धस्तत्त्वं प्रति 0 श्रद्धावांस्तत्प्रत्यनीकक्लेशह्रासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानकारिरुचिर्वा । तथा, अत एव कारणद्वयात् प्रज्ञापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधितद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत् । तथात एव कारणात् क्रियापरश्चारित्रमोहनीयकर्मक्षयोपशमाद् मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविध निधिग्राहकवत् । चशब्दः । समुच्चये । एवशब्दोऽवधारणे। एवं चानयोः प्रयोगः-क्रियापर एव च नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चरित्रस्य । तथा, गुणरागी विशुद्धाध्यवसायतया स्वगतेषु वा परमतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ गुणरागी निर्म- KE
॥३०८।। त्सर इत्यर्थः । तथा, शक्यारंभसंगतः कत्तुं शकनीयानुष्ठानयूक्तो न शक्ये प्रमाद्यति न चाशक्यमारभत इति भावः ।। यः कश्चिदेवंविधगुणोपेतस्तमाहुर्बवते समयज्ञा मुनि साधुमिति ।।१९९।।
यदि नामैवं साधुलक्षणमुक्तं, तथापि प्रस्तुते किमायातमित्याह;एयं च अस्थि लक्खणमिमस्सनिस्सेसमेव धन्नस्स । तहगुरुआणासंपाडणं उ गमगं इहं लिंग ।।२००॥