________________
॥३०७॥
णामस्य यथा कस्यचिद् अन्धस्य दृश्येष्वर्थेषु व्यवच्छेद्यमाह-न नैव विपर्ययो विपर्यासः । इति पदपरिसमाप्तौ । नियमाद् निश्चयेनात्र हेतुमिथ्यात्वादीनां मिथ्यात्वमोहनीयस्यादिशब्दाद् अनन्तानुबन्धिनां च बोधविपर्यासकारिणां, तथा क्रियाव्यत्यय हेतूनाम् अप्रत्याख्यानावरणानां प्रत्याख्यानावरणानां च कषायाणामभावादनुदयात् । एतदुदयो हि हृत्पूरकोपयोगवत्, मद्यादिकुद्रव्योपयोगवद् वा नियमाद् आत्मानं भ्रममानयति । तद्वतश्च न तात्विकी काश्चित कार्यनिष्पत्तिरिति ॥१९७॥
अत एवाह -
एसा य एत्थ गरुओ णाणज्झवसाय संसया एवं | जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला ।।१९८ ।।
एष एव विपर्यय एव अत्रैषु बाधदोषेषु मध्ये गुरुको महान् दोषः । व्यवच्छेद्यमाह-न नैवानध्यवसायसंशयौ एवं गुरुnt दोषी । तत्रानध्यवसायः सुप्तमत्तपुरुषवत् क्वचिदप्यर्थे बोधस्याप्रवृत्तिः, संशयश्चानेकस्मिन् विषयेऽनिश्चायकतया प्रवृत्ति:, यथोक्तम् - "जमणे गत्थलंबणमपरि दोसपरिकुंठियं चित्तं । सयइव सव्यप्पयओ तं संसयरूवमण्णाणं ॥ १ ॥” इति । यस्माद् असत्प्रवृत्तिः, परिशुद्धन्यायमार्गानवतारिणी चेष्टा, इतो विपर्यासात् सर्वत्र सर्वेष्वैहलौकिकपारलौकिकेष्वर्थेष्वनर्थफला व्यसनशतप्रसविनी प्रादुरस्ति । यदाऽवाचि - " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्यास्वसमो रोगो न मिथ्यात्वसमं तमः ।। १ ।। द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ||२|| ” अनाभागसंशयतो जाताप्येषा त्वाभिनिवेशाभावात् सुखसाध्यत्वेन नात्यन्तमनर्थ सम्पादिकेति । १९८ ॥
॥३०७॥