________________
श्रीउपदेशपदे
॥ ३०६ ॥
जह चैव चंदउत्तस्स विग्भमो सव्वहा ण चाणक्के । सव्वत्थ तहेतस्सवि एत्तो अहिगो सुहगुरूमि ॥। १९६ ॥ यथा चैव तथैवेत्यर्थ, चन्द्रगुप्तस्य मौर्यवंशप्रसवप्रथमहेतो राजविशेषस्य प्राक्कथितस्य विभ्रमो विपर्यासः संशयो वा सर्वथा सर्वैः प्रकारैर्न नैव चाणक्ये प्रागुक्तलक्षणे मंत्रिणि सर्वत्र सर्वेषु प्रयोजनेषु समादिश्यमानेषु तथैतस्यापि माषतुषादेर्यतेरितश्चन्द्रगुप्तादधिकः समर्गलो विश्वासः शुभगुरी विजृम्भते । यथा हि चन्द्रगुप्तस्य पाटलीपुरोपरोधकाले नन्दबलनिर्द्धाटितेन चाणक्येन नीयमानस्य पश्चादनुलग्ने नन्दसेन्ये अनन्योपायां चन्द्रगुप्तरक्षां परिभावयता महति सरसि - निविष्टपद्मिनीषण्डमण्डिते निक्षिप्तस्य नन्दाश्ववारेणैकेन क्व चन्द्रगुप्तस्तिष्ठतीति पृष्टेनाङ्गुल्यग्रेण दर्श्यमानस्यापि नाविश्वासो जातः, किंत्वार्य एव युक्तमयुक्त वा जानातीति प्रतिपत्तिः, तथाऽस्य माषतुषादेः सर्वथा व्यावृत्तविपर्यासस्य संसारविषविकारनिराकरणकारिणी गुरोरस्य सेवेति मन्यमानस्य चन्द्रगुप्तस्य विश्वासादिह राज्यमात्रफलादनन्तगुणः शुभगुरौ प्रत्ययः प्रवर्त्तत इति ॥ १९६ ।।
ननु गुरुमात्रगोचरविभ्रमाभावेऽपि विशेषतत्त्वविषयविभ्रमसद्भावात् कथमस्य कृत्यं भ्रान्तिगर्भ सत् शुद्धचरित्रतया व्यवहृतमित्याशंक्याह ;
अनत्थवि विन्नेनाभोगा चैव नवरमेयस्स । न विवज्जउत्ति नियमा मिच्छसाईणभावातो ॥१९७॥ अन्यत्रापि गुरुव्यतिरिक्तेऽपि जीवादी विषये गुरौ तावदविभ्रम एवेत्यपिशब्दार्थः, अनाभागश्चैवानुपयोग एव नवरं केवलं निबिडश्रुतावरणप्रतिघाताद् एतस्य माषतुषादेरत्यन्ततत्त्वजिज्ञासावतोऽपि नीलपीतादिरूपेो पारूढदृढ दिदृक्षापरि
गुर्वाज्ञानु लघने चंद्रगु० दृ०
॥ ३०६ ॥