SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ॥३०५॥ धिस्वभावतामापन्नो यतः, ततः शुद्धो धर्म एव पञ्चनमस्कारस्मरणादिरूप औषधं निवृत्तिहेतुरस्य संसारस्य । यथोक्तम् - "पंचनमोक्कारो खलु विहिदाणं सत्तिओ अहिंसा य। इंदियकसायविजओ एसो धम्मो सुहपओगो ॥१॥" एवमवगते यदेष पुननिर्णीतवाम्, तदाह-गरुकुलसंवासे गुरोरुक्तलक्षणस्य कुलं परिवारस्तत्रसम्यक् तद्गतमर्यादया वासे सति स शुद्धो धर्मो निश्चयतः परमार्थवृत्त्या सम्पद्यते। अनिश्चयरूपस्तु कृत्रिमसुवर्णसदृशः परीक्षामक्षममाणोऽन्यथापि स्यात् । न च तेन किञ्चित, संसारफलत्वेनासारत्वादिति ज्ञातमेतेन माषतषादिना साधुजडेनापि सता ।।१९४।। कुत एतदेवमिति चेदुच्यते;जं कुणति एवमेवं तस्साणं सव्वहा अलंघंतो। एगागिमोयणम्मिवि तदखंडण मो इहं णायं ॥१९५।। यद्यस्मात् कुरुते एवं निश्चयतः, एवं गुरुकुलसंवासं माषतुषादिः। कीदृश इत्याह-तस्यगुरोराज्ञामिच्छामिथ्याकारादिपरिपालनरूपां सर्वथा मनसा वाचा कायेन च अलंघयन्ननतिकामान् । नन्वेकाकिनस्तस्य किमित्याह-एकाकिमोचनेऽपि कुतोऽप्यशिवादिपर्यायादेकाकिनोऽपरसाधुसाहाय्यरहितस्य क्वचिद् ग्रामनगरादौ गुरुणा स्थापने सत्यपि तद-* खण्डना गुर्वाज्ञानुल्लंघना वर्त्तते 'मो इति प्राग्वत् । अयमत्राभिप्रायः-बहुसाधुमध्ये लज्जाभयादिभिरपि भवत्येव गुर्वाज्ञानुल्लंघनम् । यदा त्वसौ एकाकितया युक्तोऽपि गुरुकुलवासप्रवृत्तां समाचारी सर्वामनुवर्तते, तदा ज्ञायते निश्चयतो गुरुकुलसंवासवानसौ, तत्साध्यस्य क्रियाकलापस्य सर्वथाऽखण्डनात , इह गुर्वाज्ञानुल्लंघने ज्ञातं दृष्टान्तो ज्ञेयम् ॥१९५।। तदेवाह; KXXXXXXXXXXXXXXXXXXXXXXXX ।।३०५॥ XXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy