________________
श्रीउपदे
शपदे
।। ३०४।।
च्युतः क्वापि सत्कुले जन्म लब्धवान् ||९|| कालेन साधुसम्पर्काद् बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ प्रवव्राज विरागतः ॥ १०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकश्रुतम् । उदोष्णं च तकत् तस्य कर्म जन्मान्तराजितम् ।। ११।। तस्योदयाद् न शक्नोति ग्रहीतुं पदमप्यसौ । प्रपठन्नप्यविश्रामं बहुमानयुतोऽपि सन् ॥ १२ ॥ । ततः सूरिरशक्त तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थं तं संक्षेपादपीठपत् ||१३|| यथा मा रुष्य मा तुष्येत्येवमेव स भक्तितः । घोषयामास तत्रापि विस्मृतिस्तस्य जायते || १४ || ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषयामास तुष्टो मासतुषेत्यलम् ||१५|| ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्यातिं नीतो महात्मासी बालिशैः क्रीडनापरः ।। १६ ।। अदोऽपि विस्मरत्येष यदा मोहात्तदा तकम् । शून्यचित्तमवाचं च हसन्तो बालका जगुः || १७ ॥ अहो माषतुषः साधुरेष मौनेन तिष्ठति । एवमुक्तः स तैर्मेने साधु भा स्मारितं मम ||१८|| ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधुवस्तु तथा श्रुत्वा वारयन्तिस्म सादराः || १९|| शिक्षयन्ति स्म तं साधो मारुष्येत्यादि घोषय | अतः प्रमोदमापन्नो घोषयामास तत्तथा ॥२०॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥ २१ ॥ १९३॥
अथामुमेव शुभौघसंज्ञानयोगमेषां भावयन्नाह ; -
रुद्दो खलु संसारो सुद्धो धम्मो तु ओसहमिमस्स । गुरुकुलसंवासे सो निच्छयओ णायमेतेणं । । १९४ ।।
रौद्रो विषविकारादिवद्दारुणः, खलुरवधारणे, संसारो नरनारकादिभ्रमणरूपः सर्वशरीरसाधारणः पारमार्थिकव्या
कस्यचिज्जडत्वेपि
ॐ शुभपरिणामहतौ
भाष० दृ०
।। ३०४ ।