SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥३०३॥ नावाप्तिप्रगुणः स्वरसवाही जीवपरिणतिविशेषस्तमनुसरति तच्छीलश्च यः स तथा तद्भावस्तत्त्वं तस्मात्, शुभचैव परिशुद्ध एव व्यावृत्तविपर्यासदुःख एव परिणामो विज्ञेयः । ननु मार्गानुसारित्वेऽपि बठरतया कथं तत्परिणामशुद्धिरित्याशंक्याह-शुभौघसंज्ञानयोगात् शुभमविपर्यस्तमोघेन सामान्येन सुबहुविशेषावधारणाक्षमं यत्संज्ञानं वस्तुतत्त्वसंदनरूपं तस्य योगात् । ते हि बहिर्बहु तमपठन्तोऽपि अतितीक्ष्णसूक्ष्मप्रज्ञतया बाहुपाठकस्थूलप्रज्ञपुरुषानुपलब्धं तत्त्वमवबुध्यन्त इति । तदुक्तं - " स्पृशन्ति शरवत्तीक्ष्णाः स्वल्पमन्तविशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहीरश्मवत् ॥ १॥" कथानकसम्प्रदायश्चैवम् ; -- बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः । श्र ुतमत्यर्थशिष्यालि - सेव्यमानक्रमाम्बुजः || १|| सूत्रार्थपाथसां दाने महाम्भाद इवाश्रमः । संघादिकार्यभाराणां निस्तारे धुर्यसन्निभः ||२|| तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः । स्वेच्छया स्थाननिद्रादेः कर्त्ता स्वार्थपरायणः || ३|| तत्र सूरिः क्वचित्कार्ये श्रान्तः सन् मुग्धबुद्धिभिः । अज्ञातावसरैः शिष्यैर्व्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद् व्याख्यायामक्षमत्वतः । चित्तखेदं जगामात्र चिन्तयामास चेदृशम् ।।५।। धन्योऽयं पुण्यवानेष मद्भ्राता निर्गुणो यतः । सुखमास्ते सुखं शेते पारतंत्र्यविवर्जितः ||६|| वयं पुनरन्या ये स्वगुणैरेव वश्यताम् । परेषां प्रापिताः स्थातुं सुखेन न लभामहे ॥७॥ एवं चिन्तयता तेन निबद्ध कर्म सूरिणा । ज्ञानावरणमत्युग्रमज्ञानादिनिमित्ततः ॥ ८॥ नालोचितं च तत्तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ ॥३०३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy