________________
श्री उपदेशपदे
॥३०२॥
सम्मकिरियाए जे पुण ते अपुणब्भावजागओ चेव । णेयग्गिटडूतच्चुन्नतुल्ल मो सुवयणणिओगा ।।१९२।। सम्यक् क्रियया सर्वार्थष्व भ्रान्तबोधगर्भया तथाविधव्रतादिसेवनरूपया ये पुनरपनीताः क्लेशाः तेऽपुनर्भावयोगतचैव, पुनर्भावयोग — अपनीतानामपि तथाविधसामग्रीवशात् पुनरून्मीलनं, तत्प्रतिषेधादपुनर्भावयोगस्तस्मादेव ज्ञेयाः, अग्निदग्धवर्णतुल्या वैश्वानरप्लुप्लवककायचूर्णाकाराः । 'भा' इति पादपूरणार्थ: । कुत इत्याह- सुवचननियोगात् कषच्छेदतापताडनशुद्धाप्तवचनव्यापारणात् । यथा हि मण्डूकचूर्णो दाहमन्तरेण निर्जीवता मापन्नोऽपि तथाविधप्रावृडादि समयसमुपलब्धावनेकप्रमाणदर्दुररूपतया सद्य एवोद्भवति, तथा कायक्रियामात्रेण क्लेशाः प्रलयमानीता अपि भवान्तरप्राप्तौ तथाविधराज्यादिलाभकालेऽसह्यरूपतामादाय नरकादिफलाः सम्पद्यन्ते । स एव यथा चूर्णो दग्धः सन्निर्बीजतामागतस्तथाविधसामग्रीसंभवेऽपि नोन्मीलितुमुत्सहते, तथा सर्वज्ञाज्ञासम्पर्ककर्कशक्रियायोगतः क्लेशाः क्षयमुपनीताश्चक्रवर्यादिपदप्राप्तावपि नात्मानं लब्धुमलमिति ॥ १९२॥
नवविज्ञातसुवचनविनियेागामपि केषांचिच्छास्त्रे चारित्ररूपः शुभपरिणामः श्रूयते स कथं तेषां जातः ? इत्या
शंक्याह ; -
मासतुसादीयाण उ मग्गणुसारितओ सुहो चेव । परिणामो विन्नेओ सुहोहसण्णाणजागाओ ।।१९३।।
माषतुषादिकानां त्वगामप्रसिद्धानां जडसाधूनां पुनर्जीवाजीवादितत्त्वगोचरव्यक्त, तोपयोगाभावेऽपि मार्गानुसारित्वतस्तोव्रमिथ्यात्वमोहनीयक्षयोपशमभावात् इह च मार्गश्चेतसौऽवक्रगमनं भुजङ्गगमननलिकायामतुल्यो विशिष्टगुणस्था
कर्मक्षयाद्रव्यभावत्वये। र्म
डू
कचूण दृ०
॥ ३०२ ॥