SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ॥३०१॥ दिसुखस्य किञ्चित्कालं लाभेऽपि पापानुबन्धिपुण्यवशाद् भगवतोऽपि सद्धर्मबीजवपन विधावेकान्तेन खीलीभूतात्मनां कुणिकब्रह्मदत्तादीनामिवोपात्तदुरन्तपापप्राग्भ। राणां एतादृशकः सुसंमोहः स्वस्थतोत्तरकालभाविदुःखपरिणामतुल्य एव विज्ञेयो मुणितव्यः । तौ हि रागद्वेषावव्यावृत्तप्रबलविपर्यासौ सन्तौ पापानुबन्धिनः सातवेद्यादेः कर्मणो मिथ्यात्वमोहनीयस्य च बन्धहेतु भवतः । ततो भवान्तरे प्राप्तौ तत्पुण्यपाकेन समुदीर्णमिथ्यमोहा अत एव हिताहितकृत्येषु मूढतामुपगता मलिनकर्मकारिणः प्रागुपात्तपुण्याभासकर्मोपरमे निष्पारनारकादिदुःखजलधिमध्यमज्जिनो जीवा जायन्त इति ॥। १९० ।। एतदेव तीर्थान्तरीयमतेन संवादयन्नाह : eat far अवणीया किरियामेत्तेण जे किलेसा उ । मंडडुक्कचुन्नकप्पा अन्नेहिवि वनिया णवरं । । १९१।। इत एवाज्ञाबाह्यशमस्य दुःखपरिणामफलत्वाद् हेतोः । किमित्याह -अपनीता इवापनीताः समुद्भूतावस्थां त्याजिताः, क्रियामात्रेण क्रिययैव बालतपश्चरणाsकामशीतोष्णाद्यधिसहनरूपया सम्यग् विवेकविकलत्वेन केवलया वक्ष्यमाणतुशब्दस्य पुनरर्थस्येहाभिसम्बन्धाद् ये तु ये पुनः क्लेशाः कामक्रोधलोभाभिमानादयो दोषाः, ते मण्डूकस्य भेकस्य मृतकस्य सतस्तथाविधप्रयोगाद्यश्चूर्णः अतिसूक्ष्मखण्डसमूहलक्षणो मण्डूकचूर्णस्तस्मात् किञ्चिदूना मण्डूकचूर्णकल्पा वर्त्तन्ते । इत्यन्यैरपि तीर्थान्तरीयैः सौगतादिभिर्वणिताः स्वशास्त्रेषु निरूपिता नवरं केवलम् । तदुक्तं -- "क्रियामात्रतः कर्म्म मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत्" इत्यादि ॥। १९१ ।। ।। ३०१ ॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy