________________
श्रीउपदे-10 निजदर्शनेषु युक्तिपथावतारासहेष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः पूर्वरागद्वयापेक्षयातिदृढस्वभावः । आज्ञायां शपदे प्रतिबन्धो विजृम्भते स इति । द्वेषो मत्सरः । अयमपि तत्तत्कार्यमपेक्ष्य सचित्ताचित्तद्रव्यगोचरतया द्विभेदः । ततो
धर्म इति
सप्रपञ्चमन्दौ निर्बीजीभूतौ निर्बीजीभावाभिमुखौ वा रागद्वेषो यस्मिन् स तथा परिणामो निरूपितरूपः शुद्धकः परिशुद्धस्व
निरू. भावः 'तउत्ति तको भवति जायते । यत एवं, ततो मोहे च विपर्यासे मिथ्यात्वमोहनीयोदयजन्ये पुनः प्रबले गुणव||३००। त्पुरुषप्रज्ञापनाया अप्यसाध्यत्वेन बलीयसि विजृम्भमाणे सति न नैव मन्दता निहतशक्तिरूपता । हंदीति सन्निहि
तसभ्यजनस्य पश्यतः स्वयमेव प्रयोजनं पश्यतु भवानेव यदि मन्दता स्याद् एतयोः रागद्वेषयोः । न हि कारण* मन्दतामन्तरेण कार्यमल्पीभवितुमर्हति, महाहिमपातसमये इव रोमोद्धषणादयः शरीरिणां शरीरविकारा इति ।।१८९॥ 8
ननु मिथ्यादृशामपि केषाश्चित् स्वपक्षनिबद्धोद्ध रानुबन्धानामपि भूयानुपशमः प्रबलमोहत्वऽपि दृश्यते, स कथं जातः ? इत्याह;संमोहसत्थयाए जहाहिओ हंत दुक्खपरिणामो। आणावज्झसमाओ एयारिसओ वि विनेओ ।।१९।।
संमोहः सन्निपातो युगपद्वातपित्तश्लेष्मसंक्षोभजन्यो व्याधिविशेषः, तस्य स्वस्थता देहादनुत्तारेऽपि · कुतोऽपि वेला- ॥३००।। बलादनुद्रेकावस्था संमोहस्वस्थता तस्यां सत्यामपि, यथा अधिकः प्रभूतः भूयः संक्षोभात् प्रागवस्थामपेक्ष्य जायते हन्तेति प्रत्यवधारणे, ततोऽस्माभिरवधार्य निगद्यमानमेतत् प्रत्यवधारयन्तु भवन्तः । दुःखपरिणामो मूप्रिलापाङ्गभङ्गादिः 'आणावज्झसमाओं' इति आज्ञाबाह्यात् शमाद् रागद्वेषमन्दतालक्षणात् तथाविधदेवभवैश्वर्यमनुष्यजन्मराज्या