SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ||२९९॥ गलमच्छवविमोयगविसन्नभाईण जारिसो एसो । मोहा सुहो वि असुहो तप्फलओ एवमेसो वि । १८८।। गलो नाम प्रान्तन्यस्तामिषो लोहमयः कण्टको मत्स्यग्रहणार्थं जलमध्ये सञ्चारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एव । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवाद् दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशृगालपिपीलिकामक्षिकादींस्तथाविधकुत्सितवचनसंस्कारात् प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डिविशेषः । विषेण मिश्रमन्नं विषान्नं तद् भुक्तं तच्छीलश्च यः स तथाविधः । ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभाजी द्वंद्वस्तेषां यादृश एष परिणामः प्रत्यपायफल एव । कुतः, मोहादज्ञानात् पर्यन्तदारुणतया शुभेोऽपि स्वकल्पनया स्वरुचिमन्तरेण तेषां तथा प्रवृत्तेरयोगात् सुन्दरोऽपि सन् अशुभः संक्लिष्ट एव । कुत इत्याह;-तत्फलतः भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद् अशुभपरिणामफलत्वात् । अथ प्रकृते योजयन्नाह;-एवं गलमत्स्यादिपरिणामवत् एषोऽपि जिनाज्ञोल्लङ्घनेन धर्मचारिपरिणामस्तत्फलत्वादशुभ एव। आज्ञापरिणामशून्यतया उभयत्रापि समानत्वेन तुल्यमेव किलर फलमिति ॥१८८।। आहकस्माच्छुभाऽपि परिणामो मोहादशुभतां प्रतिपद्यत इत्याशंक्याह ;जो मंदरागदोसो परिणामो सुद्धओ तओ होति । मोहम्मि य पबलम्मी ण मंदया मंदि एएसि ।।१८९।। . यः कश्चिद् रागश्च द्वेषश्च रागद्वेषौ । तत्र रागोऽभिष्वङ्गः स च स्नेहकामदृष्टिरागभेदात् त्रिप्रकारः । तत्र स्नेहरागो जनकादिस्वजनलोकालम्बनः । कामरागः प्रियप्रमदादिविषयसाधनवस्तुगोचरः । दृष्टिरागः पुनर्योऽयं दर्शनिनां निज
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy