________________
श्रीउपदेशपदे
OXO
निद्दिष्टं प्रथमसाधोरिव । तदबाधया त्वाज्ञाया अबाधया पुनर्गृह्यमाणं स्फुटं निर्व्याजमेव तदपि च आधाकर्मादि दोष
आज्ञांयां
धर्म इति दुष्टं भक्तादि शुद्ध द्वितीयसाधोरिव । इत्येषा आज्ञा जैनी वर्तते । लौकिका अपि पठन्ति "भावशुद्धिर्मनुष्यस्य विज्ञेया
सप्रपञ्चकार्यसाधनी । अन्यथाऽऽलिङ्गयते कान्ता दुहिता पुनरन्यथा ॥१॥" ॥१८६।।
निरू० आह-“यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पडून नासौ पापेन लिप्यते ।।१।।" इत्यादिव चनप्रामाण्याद् भावशुद्धिरेव गवेषणीया, किमाज्ञायोगेनेत्याशङ्कयाहतन्निरवेक्खो नियमा परिणामोवि हु असुद्धओ चेव । तित्थगरेऽबहुमाणासग्गहरूवा मूणेयधो ॥१८७॥
तन्निरपेक्ष आज्ञाबाह्यः स्वेच्छामात्रप्रवृत्तो नियमाद निश्चयेन 'परिणामोवि हु'त्ति प्रस्तावात् शुभोऽपि परिणामोsन्तः- करणपरिणतिरूपोऽशुद्ध एव मलिन एव । कुतः, यतः स तीर्थङ्करे भगवति सर्वजगजीववत्सले विषयभूतेऽबहुमानाद् । बहुः प्रभूतः स्वात्मापेक्षया मानो मननं बहुमानस्ततप्रतिषेधादबहुमानस्तरमाद्धेतुभूतात् सकाशाद् असद्ग्रहरूपोऽसुन्दरा | ग्रहरूपो मुणितव्यो ज्ञेयः । यद्वक्ष्यति,-"सुद्धछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । पिच्छत्थं सबरसरक्खवहणपायच्छिवणतुल्लो ॥१॥ इत्यादि । नहि यो यद्वचननिरपेक्षः प्रवर्तते स तत्र बहुमानवान् भवति, यथा कपिलादिः
||२९८॥ सुगतशिवादी देवताविशेषे, जिनवचननिरपेक्षश्च गुरुकुलवासादिपरित्यागेन शुद्धपिण्डैषणादिकारी साधुः, तस्मादू न भगवति बहुमानवानिति ॥१८७।। अथास्य शुभलेश्यत्वमपि दृष्टान्तोपन्यासेन तिरस्कुर्वन्नाह;