SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ||२९७|| दरेण दीयमानं सञ्जातशङ्को नूनं न ग्रहीष्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-क्षपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं - क्षीरान्नं मया परिवेष्यमाणमरुचिसारर्वचनैरनादेयतामानीय प्रतिषेधनीयम । तथा विहितं च तैः । क्षपकेणापि दत्तद्रव्यादितीव्रोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम । तद् भोक्तुमारब्धस्य च "बायालीसेसणसंकडम्मि गहणम्मि जीव ! न हु छलिओ । इण्हि जह न छलि- र जसि भुजतो रागदोसेहिं ॥१॥" इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्तौ केवलज्ञानमजनीति । एवं प्रथमस्य । सर्वज्ञाज्ञोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः । द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति । अत एवोक्तं समये “आहाकम्मपरिणओ फासुयभाईवि बंधओ भणिओ। सुद्धं गवसमाणो आहाकम्मेऽवि सो सुद्धो ।।१॥" तत्तस्मादेतस्मिन्नागमे प्रयत्नः शुश्रूषाश्रवणग्रहणादिः सर्वस्य मुमुक्षोविज्ञेयो मोक्षहेतुरिति, एतत्प्रयत्नमन्तरेण मोक्षाभावात् । तथा च पठन्ति "मलिनस्य यथाऽत्यन्तं जलं ! वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्र विदुर्बुधाः ॥१।। शास्त्रे भक्तिर्जगद्वन्द्य मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥२॥" ॥१८५।। एतदेव स्फुटवृत्त्या भावयन्नाह;आणाबाहाए जओ सुद्धपि य कम्ममादि निद्दिट्ट । तदबाहाए उ फुडं तंपि य सुद्धति एसाणा ॥१८६।। आज्ञाबाधया जिनवचनोल्लङ्घनरूपया शुद्धमपि च सत्पिण्डादिवस्तू 'कम्ममादि' आधाकर्मादिसर्वेषणा दोषभाग २९७॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy