________________
||२९७||
दरेण दीयमानं सञ्जातशङ्को नूनं न ग्रहीष्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-क्षपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं - क्षीरान्नं मया परिवेष्यमाणमरुचिसारर्वचनैरनादेयतामानीय प्रतिषेधनीयम । तथा विहितं च तैः । क्षपकेणापि दत्तद्रव्यादितीव्रोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम । तद् भोक्तुमारब्धस्य च "बायालीसेसणसंकडम्मि गहणम्मि जीव ! न हु छलिओ । इण्हि जह न छलि- र जसि भुजतो रागदोसेहिं ॥१॥" इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्तौ केवलज्ञानमजनीति । एवं प्रथमस्य । सर्वज्ञाज्ञोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः । द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति । अत एवोक्तं समये “आहाकम्मपरिणओ फासुयभाईवि बंधओ भणिओ। सुद्धं गवसमाणो आहाकम्मेऽवि सो सुद्धो ।।१॥" तत्तस्मादेतस्मिन्नागमे प्रयत्नः शुश्रूषाश्रवणग्रहणादिः सर्वस्य मुमुक्षोविज्ञेयो मोक्षहेतुरिति, एतत्प्रयत्नमन्तरेण मोक्षाभावात् । तथा च पठन्ति "मलिनस्य यथाऽत्यन्तं जलं ! वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्र विदुर्बुधाः ॥१।। शास्त्रे भक्तिर्जगद्वन्द्य मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ॥२॥" ॥१८५।।
एतदेव स्फुटवृत्त्या भावयन्नाह;आणाबाहाए जओ सुद्धपि य कम्ममादि निद्दिट्ट । तदबाहाए उ फुडं तंपि य सुद्धति एसाणा ॥१८६।।
आज्ञाबाधया जिनवचनोल्लङ्घनरूपया शुद्धमपि च सत्पिण्डादिवस्तू 'कम्ममादि' आधाकर्मादिसर्वेषणा दोषभाग
२९७॥