________________
श्रीउपदे-
शपदे
||२९६॥
आणाए चरणं आहाकम्मादिणायतो सिद्ध । ता एयम्मि पयत्तो विन्नेओ मोक्खहेउत्ति ।।१८५॥
*आज्ञायां यद्यस्मादाज्ञायाः सकाशाच्चरणं चारित्रं देशतः सर्वतो वा जीवानां सम्पद्यते, न पुनरन्यथा । अन्यत्राप्युक्तम्--
धर्म इति "वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥शा अस्मिन् हृदयरथे ।
सप्रपञ्च
वास्य ।।। जस्मन् हृदयस्य निरू० सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः ।।२।।" एतच्चाधाकर्मादिज्ञाततः सिद्धम् । इहाधाकर्म-"सच्चित्तं जसचित्तं साहूणट्टाए कीरई जं च । अञ्चित्तमेव पच्चइ आहाकम्मं तयं विति ॥१॥" इत्यादिसूत्रोक्तलक्षणमन्नपानादि, आदिशब्दात् प्रासुकैषणीयस्यास्यैव ग्रहः, ततस्तदेतद् ज्ञातमुदाहरणम् । तत: सिद्ध पिण्डनियुक्तौ प्रतिष्ठितम् । तथा हि-क्वचित् सन्निवेशे केनचिद् मुग्धबुद्धिना दानश्रद्धालुना जैनशासनानुगतेन क्वचित् | समये सर्वसङ्घभक्तमुपकल्पितम् । वितीर्णं च पात्रपूरपूर्वकं तद्ग्राहकसाध्वाभासानाम् । श्रुतश्चायं दानव्यतिकरोऽत्यौदायसूचकः सन्निहितग्रामवासिना लिङ्गमात्रोपजीविना केनचित् साध्वाभासेन । प्राप्तश्चासावन्यस्मिन् दिने तत्र । पृष्टश्च तेन श्रावकेणागमनप्रयोजनम् । भणितं च तेन, भवदौदार्यमन्तरेण नान्यत किञ्चित् । तद्दिने जामातृकादिः सुबहुः प्राघुणकलोकस्तद्गृहे समागतः । उपस्कृतश्च सूपौदनपक्वान्नादिस्तन्निमित्तमाहारः । संविभागितश्च तेन पात्रपूरमसौ भुक्तवांश्चेति ।।
तथा क्वचिन्ननगरे कश्चित् क्षपको मुनिविहितमासदिवसोपवासः पारणकदिने तत्रानेषणां सम्भावयन अज्ञातोञ्छवाञ्छया सन्निहितग्रामे जगाम । तत्र चैकया कुटुम्बिन्या यथाभद्रिकयाऽत्यन्तसाधुदानश्रद्धानयाऽतिभूरिक्षीरानमुपरकृत्या