SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ।।२९५ ॥ साविषवृक्षस्य प्रोच्यते सकलं फलम् ||१|| एतद्वैलक्षण्येन चाहिसाया योजना कार्या । 'सो गुरूउ' इति स आगमः सूत्रार्थोभयरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः 'गुरुउ' इति गुरुभ्यः सकाशाल्लभ्यते । गुरुलक्षणं चेदं -- -“गुरुर्गृहीतशास्त्रार्थः परां निःसङ्गतां गतः मार्त्तण्डमण्डलसमो भव्याम्भोजविकाशने || १ || गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरुर्भवकान्तारनायकः || २ || ” अत एवान्यत्रोच्यते - "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ||१|| संसारसमुद्भूतकषायदोषं लिलङ्घिषन्ते गुरुणा विना ये । विभीमनक्रादिगणं ध्रुवं ते वाधि तितीर्षन्ति विना तरण्डम् ॥ २ ॥ " इति ॥ कथमित्याह - विधिना विधिनैव तु कालविनयबहुमानादिना, अविधिलब्धस्य श्रुतस्य प्रत्युतापायफलत्वेनालब्धकल्पत्वात् । अपायाश्वामी - "उम्मायं च लभेज्जा रोगायकं व पाढणे दीहं । तित्थयरभासियाओ धम्माओ वावि भंसेज्जा" ॥ १ ॥ | " इति । तत एतस्मिन् विधिना गुरुभ्यो लभ्यमाने आगमे कुरुते यत्नमादरं शुश्रूषाश्रवणग्रहणादिरूपं लोकोत्तरनीत्या लोकाद् गतिकानुगतिकरूपलोकहेरिप्रवृत्तात् कृतीथिकादिभेदभिन्नादुत्तरा उपरिवर्तनी नीतिर्न्यायस्तस्याः सर्वविद्वचनानुसारेणेत्यर्थः । मतिमान् प्रकृतबुद्धिधनेो जनः । एवं चास्य महात्मनस्तुच्छीभूतभव भ्रमणरोगस्य सुप्रयुक्तमिवौषधं असावागमः सर्वाङ्गं परिणमते । मुच्यते तैस्तैर्भवविकारैरिति ॥ १८४ ॥ आह-किमित्यसावत्यन्तमागमे यत्नं करोति, न पुनरहिंसायामेवेत्याशङ्कयाह Dxn ।।२९५ ॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy