________________
।। २९१ ॥
रक्षणमारब्धम् । चरमया रोहिण्या रोहिताः प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्ध नेति ।। १७५ ।। ४ । ।
कालेन बहुकेन पञ्चवर्षकलक्षणेन गतेन सता भोजनपूर्वं तथैव समर्पणकाल इव सर्वस्वबन्धुलोकप्रत्यक्षं याचा कृता शालिकणानाम् । तत्र च प्रथमा उच्झिका वधूः स्मरणविलक्षा प्राक्कालाप्पितानां तदैव स्मरणे विलक्षा तदवस्थसमर्पणीयाभावात्, किकर्त्तव्यतामूढा संजाता । तथेति प्राग्वत् स्मरणविलक्षैव द्वितीया भोगवती समभूत् । तृतीयारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् ।। १७६ । । ५ । ।
चरमया रोहिण्यभिधानया च वध्वा कुञ्चिकाः शालिकोष्ठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते । भणितं च तया युष्मद्वचनपालना मया कर्त्तव्या, सा 'एवं चिय'त्ति एवमेव कृता भवति, प्रतिवर्षं वपनेन वृद्धि नयनात् इतरथा शक्तिविनाशात् प्ररोहसामर्थ्यक्षयाद् न सम्यक् तव वचनपालना कृता भवतीति ।। १७७ ।। ६ ।।
तवबन्धूनां बधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याण साधका मे मम इत्यस्माद् हेतोः, किं युक्तमत्रैवंविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजना: 'आहु'त्ति आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रो - चितमिति ।। १७८ ॥ ७॥
ततश्च कज्जवोज्झन - जट्टन भाण्डागार - गृहसमर्पणा यथासङ्खयमासां वधूनां निजकार्यं श्रेष्ठिना कृतम् । तत्र कञ्जवोज्झनं गृहकचवरशोधनम् । शेषं सुगमम् । साधुवादश्च जनश्लाघारूपः सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥ १७९ ||८|| अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुबंधं चेव जत्तेणं' इति गाथाव
।२९१ ।।