________________
॥२८१ ॥
किश्विदाह; -
तोचि जाणिञ्जति विसओ खलु दिव्वपुरिसगाराणं । एयं च उवरि वोच्छं समासतो तंतनीतीए ।।१६६ ।। इत एव कालादिकलापस्य कारणभावप्रज्ञानादेव ज्ञायते निश्चीयते विशदविमर्श वशावदातीभूतमतिभिर्विषयो गोचरः, खलुर्वाक्यालङ्कारे, दैवपुरुषकारयोर्देवस्य पुराकृतस्य कर्मणः, पुरुषकारस्य च जीवव्यापाररूपस्य - इयद्देवस्य फलमियच्च पुरुषकारस्येत्यर्थः । अयं च मतिमद्भिः कथंचिद् विज्ञायमानोऽपि न प्रायेण सुखबोध: स्यादिति परिभाव्याह; - एतं दैवपुरुषकारविषयं च पुनरर्थे, तत एवं पुनरुपरि एतच्छास्त्राग्रभागे 'जमुदग्गं थेवेण वि कम्मं परिणम' इत्यादिना ग्रन्थेन वक्ष्ये भणिष्यामि समासतः संक्षेपात् तन्त्रयुक्त्या शास्त्रसिद्धोपपत्तिभिरित्यर्थः, विस्तरभणनस्य दुष्करत्वाद् दुर्बोधत्वाच्च श्रोत्ॠणामिति ॥ १६६ ॥
इत्थं बुद्धिग्रन्थश्रवणोपलब्धबुद्धिर्बुधो यद्विदध्यात् तदाह; -
बुद्धिजुओ आलोयइ धम्मट्ठाणं उवाहिपरिसुद्धं । जोगतमप्पणो चिय अणुबंधं चैव जत्तेण ।।१६७।।
बुद्धियुतः प्राक्प्रतिपादितौत्पत्तिक्यादिमतिपरिगतो जन्तुरालोचयति विमृशति किमित्याह ; - धर्मस्य सर्वपुरुषार्थप्रथमस्थानोपन्यस्तस्यात एव सर्वसमीहितसिद्ध्यवन्ध्यनिबन्धनस्य श्रुतचारित्राराधनारूपस्य स्थानं विशेषो धर्मस्थानम्, उपाधिभिर्विशेषणैर्द्रव्यक्षेत्रकालभावलक्षणैरुत्सर्गापवादवादास्पदभावमुपगतैः परिशुद्धमप्राप्तदोषम् यथा सम्प्रति एते द्रव्यादयः किं साधका बाद्यका वा वर्त्तन्ते प्रस्तुतधर्मस्थानस्य यतः पठन्ति ; - " उत्पद्यते हि साऽवस्था देशकालामयान्
२८१॥