SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भेदप्र० श्रीउपदे-X निर्माण प्रवत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयाथं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारितापत्तेः । इति नैतद्वादोऽपि विदुषां शपदे मनोमोदावहः ॥५॥ कालादि कारणस्यअतो न कालाद्य कान्ताः प्रमाणतः सम्भवन्तोति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षानित्याद्य कान्त व सभ्य व्यपोहेनेकानेकस्वभावकार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यगवाद इति स्थितम् ॥१६४।। मिथ्यात्व२८०॥ अयं च कालादिकारणकलापो यत्रावतरति तत्स्वयमेव शास्त्रकारः समुपदिशन्नाह सम्वम्मि चेव कब्जे एस कलावो बुहेहि निद्दिट्ठो। जणगत्तेण तओ खलु परिभावेयव्वओ सम्मं ॥१६५॥ सर्वस्मिन् निरवशेषे, चैवशब्दोऽवधारणार्थः, ततः सर्वस्मिन्नेव कुम्भाम्भोरुहप्रासादाङकुरादौ नारकतिर्यग्नरामरभवभाविनि च नि श्रेयसाभ्युदयोपतापहर्षादौ वा बाह्याध्यात्मिकभेदभिन्ने कार्ये न पुनः क्वचिदेव एष कालादिकलापः कारणसमुदायरूपः बुधैः सम्प्रतिप्रवृत्तदुःषमातमस्विनीबललब्धोदयकुबोधतमःपूरापोहदिवाकराकारश्रीसिद्धसेनदिवाकरप्रभृतिभिः पूर्वसूरिभिः निद्दिष्टो निरूपितो जनकत्वेन. जन्महेतुतया यतो वर्तते । ततो जनकत्वनिर्देशात्, खलुः अवधारणे भिन्नक्रमश्च, ततः परिभावयितव्यक: परिभावनीय एव, न पुनः श्रुतज्ञानचिन्ताज्ञानगोचरतयैव स्थापनीयः, सम्यग २८०॥ यथावत्, भावनाजानाधिगतानां भावतोऽधिगतत्वसम्भवात् ॥१६५॥ ___अथ प्रसङ्गत एवैतत्कारणकलापान्तर्गतौ सुबोधतया लब्धप्राधान्यौ “सुकृतं धनस्य बीजं व्यवसायः सलिलमथ धृतिर्नीतिः । फलमुपनीय नराणां तत्पाकमुपैति कालेन ॥१॥” इत्यादिवाक्येषु पूर्वाचार्यरुपन्यस्तौ देवपुरुषकारावधिकृत्य
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy