________________
२७९।।
EKXXXXXXXXXXXXXXXXXXXX
श्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभाऽशुभा वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनाऽस्ति नाशः ।।१॥" असदेतत्, शास्त्रोपदेशवैयर्थ्यप्रसक्तः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्ध नियत्यैव भावात् । दृष्टा दृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ॥३॥
जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः;-"यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥१॥" असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः। न च स्वतन्त्रं कर्म जगवैचित्र्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् । न चैकस्वभावात ततो जगवैचित्र्यमुपपत्तिमत, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल-स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात । इति कर्मकान्तवादोऽपि
न विचारसहः ॥४॥ * अन्ये तु वर्णयन्ति;-पुरुषः एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोक्त "ऊर्णनाभ
इवांशूनां चन्द्रकान्त इवाम्भसां । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मनाम् ॥१॥" इति । एतदपि न घटते, यतः | प्रेक्षापूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते ? नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्त:;-न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिवर्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थं, दुःखितसत्त्व
XXXXXXXXXXXXXXXXXXXXXXXXXXX
॥२७९।।