SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ।।२७८।। EXXX ****** भेदाद् भेदसिद्ध ेः । न च वायुमण्डलादिकृतो वर्षादिविशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य हेतु:, इतरेतराश्रयदोषप्रसक्ते :- सति कालभेदे वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः, तद्भेदाच्च कालभेद इति परिस्फुटमितरेततराश्रयत्वम् । अन्यतः कारणाद् वर्षादिभेदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः कालस्य च कुतश्चिद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्त, क्रमयौगपद्याभ्यां तद्विरोधात् । तन्न काल एवैकः कारणं जगतः ॥ १ ॥ अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा स्वात्मनि क्रियाविरोधो दोषः । नह्यत्युत्पन्नाना तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाऽभावेऽप्युत्पत्तेर्निर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमितजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः । तथा हि-अध्यक्षानुपलभाभ्यामन्वयव्यतिरेकतो बीजादिकं 'तत्कारणत्वेन' निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्ण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलभाभ्यां कारणतया निश्चितमिति न स्वभावैकान्तवादोऽपि ज्यायान् ॥२॥ सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तदुक्त' ; - " प्राप्तव्यो नियतिबला ******* | कालादिकारणावतारस्था ना० ।।२७८ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy