________________
तथाभव्यत्वं तस्यापि अनघकर्मपरिणामस्य कारणं भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिः पारिणामिको भावः । नयाभव्यत्वं त एतद एव विचित्रं द्रव्यक्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः । कीदृशमित्याह;-तथापूरुषकारयतं
तथा तत्प्रकारोऽनन्तरपरंपरादिभेदभाकफलहेतुर्यः पुरुषकारो जीववीर्योल्लासरूपश्चरमपुद्गलपरावर्त्तवशसमुन्मीलितः तेन ||२७७॥
18 युतम् । सर्वेषामपि भव्यानां तथाभव्यत्वमस्त्येव, परं तथाविधपुरुषकार्विकलं न प्रकृतकर्मपरिणामहेतुतया सम्पद्यत | इति प्रस्तुतविशेषणोपादानं कृतमिति ।।१६३॥
ननु कथमित्थं अनेककारणा बुद्धिर्जाता इत्याशङ्कय सर्वमेव कार्यमनेककालादिकारणजन्यमिति दर्शयन्नाह ;कालो सहावनियई पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥१६४॥
कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वं तत एव समुदिताः परस्परात्यजद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः ।।
तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहि-सर्वस्य शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्यास्यान्यIM कारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं-"काल: पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागत्ति
कालो हि दुरितक्रमः ॥१॥" असदेदत्, तत्कालसद्भावेऽपि वृष्टयादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव, नित्यकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात ,-स्वभाव
२७७॥