SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ।।२७६।। Ko*XXXXXXXXXXXXXXXXXXXXXX उपायान्तरमपि बुद्धिवृद्धाववन्ध्यं समस्तीति ज्ञापयन्नाह; बुद्धिवृद्धय भत्तीए बुद्धिमंताण तहय बहुमाणओ य एएसि । अपओसयसंसाओ एयाण वि कारणं जाण ॥१६२।। र्थमुपाया IXन्तरम् भक्त्या उचितान्नपानादिसम्पादनपादधावनग्लानावस्थाप्रति जागरणादिरूपया बुद्धिमतां प्रस्तुतबुद्धिधनानां, तथा | चेति समुच्चये, बहुमानतश्चिन्तारत्नकामदुधादिवस्तुभ्योऽपि समधिकादुपादेयतापरिणामात् । चकारोऽवधारणार्थो भिन्नक्रमश्च । तत एतेषामेव बुद्धिमतां तथा अप्रद्वेषप्रशंसात इति अप्रद्वेषाद् अमत्सराद् ईर्ष्यापरिहारलक्षणात्, प्रशंसातश्च अहो धन्याः पुण्यभाज एते ये एवं पुष्कलमतिपरीततया स्वपरोपकारपरा वर्तन्त इति बुद्धिर्जायते इति प्रक्रमः। ननु बुद्धिमद्विषया भक्त्यादयोऽपि कथमाविर्भवन्तीत्याह;-एतेषामपि भक्त्यादीनां कारणं हेतुर्वर्त्तते इति जानीहि समवबुध्यस्व भो भोः ! अन्तेवासिन् ! ॥१६२॥ के इत्याह ||२७६। कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो। अणहो तहभन्वत्तं तस्सवि तहपुरिमकारजुयं ॥१६३।। कल्याणमित्रयोगः स्वपरयोः सर्वदा श्रेयस्कराणां सुहृदां साधुसार्मिकस्वरूपाणां योगः सम्वन्धः, तत्सम्बन्धस्य सर्वानुचितनिरोधेन उचितप्रवृत्त्यसाधारणकारणत्वाद् एतेषां भव्यानाम् । ननु कल्याणमित्रयोगोऽपि किंहेतुक इत्याशंक्याह-अस्य कल्याणमित्रयोगस्य कारणं कर्मपरिणामः भवान्तरोपात्तदैवपरिणतिरूपः, अनघः पुण्यानुबन्धित्वेन सुवर्णघटाकारतया निर्दोषः। नहि अनीदृशकर्मणो जन्तवः कल्याणमित्रयोगवन्तो जायन्त इति । एषोऽपि किंनिबन्धन इत्याह
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy