________________
||२७५।।
सर्वतः संछन्नायां वसुधरायां नयनाभ्यां लोचनाभ्यां साक्षाद् अप्रेक्षमाणा अपि कुशला विशदहृदया जना बुद्धया तथाविधौष्मादिलिंगोपलंभात् प्रेक्षन्ते निश्चन्वन्तीति । यतः-"पेच्छंता वि न पेच्छंति लोयणा हिययचक्खुपरिहीणा । हिययं पुण लोयणवज्जियं पि दूरं पलोएइ ॥१॥" ।।१६०।।
॥ इति पारिणामिकीबुद्धिज्ञातानि समाप्तानि ॥४॥ अथ बुद्धिवक्तव्यतामुपसंहरन्नेतज्ज्ञानश्रवणफलमाह ;कयमेत्थ पसंगणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा ।।१६१॥
कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशङ्याह;-एमाई'त्ति एवमादि निर्दिष्टज्ञातमुख्यं बुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग आकर्णयतां सतां प्रायेण बाहु-21 ल्येन भव्यानां रक्तद्विष्टत्वादिदोषवजितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह-निपुणबुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन | निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफल लाभसुन्दरा । प्रायोग्रहणं निका- २७९ चितज्ञानावरणादिकर्मणां माषतुषादीनामेतच्छवणेऽपि तथाविधबुद्धय द्भवाभावेन मा भूद् व्यभिचार इति । परमेतजिज्ञासापि महाफलव, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशलांग धियम् ॥१॥" ॥१६१।।