________________
श्रोउपदे- शपदे
सुमतिह
||२७४||
सनात् कुलजाइयमिति ज्ञानं समजनि सुमतेः । ततः प्रसादवृद्धिरिति एषा वक्ष्यमाणा जाता ।।१५६॥
यथा राज्ञा पूर्वोक्तवृत्तिदाता काशाध्यक्षो भणितः;-कुरु सेतिका कणिक्कायाः, पलं तथा चैव घृतस्य, चत्वारि चैव गुडस्य पलानि । तेन च तस्य वणिकसुतत्वपरिज्ञानाद् उक्तं न तावद्देव ! कोपः कार्यः भण्यते किञ्चिद् इत्थं तुच्छस्य क्रमवृद्धस्य कणिक्कामाणकादेर्दानात् त्वं वणिक्पुत्र इति ज्ञायते । प्रचुरदातारो राजसूनवः प्रसन्नाः सन्तो भवन्तीति । कोऽत्र प्रत्यय इत्युक्त राज्ञा, भणितं तेन जननी पृच्छा कर्तुमुचितेति ॥१५७॥
तया तु निर्बन्धगृहीतया उक्तं वैश्रमणेऽभिलाषोऽभूत् । ऋतुस्नातायाः सत्यास्तुशब्दस्य भिन्नक्रमस्य योजनात् । 'सिट्टिपासणय'त्ति श्रेष्ठिनः पुनदर्शनं संजातं, मनागभिलाषश्च तद्गोचर इति । 'संभोगे चिय'त्ति संभोग एव श्रेष्ठिनः संजात इत्यन्ये ब्रुवते, परं न तावद् इतस्तु इत एव श्रेष्ठिसंभागात् त्वं संसिद्धः, किंतु राजबीजादपि ।।१५८।।
ततः सम्पन्नापमानस्य तस्य तेन प्रज्ञापनं कृतं यथा, देव ! 'अप्पगासण'त्ति अप्रकाशनीयोऽयमर्थः । तथा नात्र दोषः । कृत एत्याह-कर्मभावात् तथाविधदेवपारवश्यात् । ततः कुशल इति कृत्वा तेन स्थापितो मंत्री मंत्रिणां सर्वेषामुपरि तु मूनि पुनः ।।१५९॥ .
आह-कथं तेनान्धेन सता एवंविधा विशेषा निर्णयपदमानीताः ? इत्याशंक्य प्रतिवस्तूपमामाह;दूरनिहित्तं पि निहिं तणवल्लिसमोत्थयाए भूमीए । णयणेहि अपेच्छता कुसला बुद्धीए पेच्छति ॥१६०।।
दूरनिहितमपि गंभीरभूमिभागगर्भनिक्षिप्तमपि निधि हिरण्यादिनिक्षेपरूपं तृणवल्लिसमवस्तृतायां भूमो तृणैर्वल्लिभिश्च
||२७४||