________________
श्रोउपदेशपदे
XXXXXX
खड्ग-स्तू
*पेन्द्रदद्वा०
।२६२।।
'वोरालोग' त्ति वीरावलोके संजाते सति 'विसदंस' त्ति विषदृष्ट्या दंशो दशनं भगवतो विहितं तेन वारत्रयं यावत् । तथाप्यमरणे 'ओसरणं दाढाविस' त्ति भगवत उपरि पातभयाद् अपसरणमपक्रमणं स्वस्थानात् । दंष्ट्राविषस्य भगवति निवेशने सति त्रीन् वारान् पश्चाद् दृढाभिनिवेशाद् भगवतो देहस्य आभागे विलोकने विहिते समुत्तीर्णदृष्टि-2 विषस्य तस्य बोधिः समुत्पन्नजातिस्मरणस्य सम्यक्त्वादिलक्षणः, तथा आराधना समाधिमरणलक्षणा सम्यग् यथावत् सम्पन्नेति ॥१४७॥ ___खग्गे सावगपुत्ते पमायमय खग्ग साहुपासणया । उग्गहमेयालोयण संबोही कालकरणं च ॥१४८॥ __ खड्ग इति द्वारपरामर्शः । तत्र कश्चित् श्रावकपुत्रः 'पमाय'त्ति प्रमादेन छू तादिना मत्तो यौवनकाले सर्वथा । धर्मबहिर्भूतमानसः 'मय'त्ति मृतः सन् 'खग्ग'त्ति महाटव्यां खड्गो नाम पशुविशेषः संजातः। स च सर्वतः पृष्टोभयपार्श्व-प्रवृत्ततुरंगप्रक्षराकारलम्बचर्मशिरःप्रवेशोद्गतैकशृङ्गो महिषाकारधरो वर्तते । तमोबहलबहुलतया च पथिकलोकं मार्गे च हन्तुमारब्धोऽसौ । अन्यदा च 'साहुपासणया' इति कांश्चित् साधून मार्गे वहमानान् ददर्श। तेन च तजिघांसार्थं समीपमागच्छता 'उग्गहमेय'त्ति अतितीव्रतपोराशित्वात् साधूनामवग्रहस्याभाव्यभूमिप्रदेशलक्षणस्य अभेदो यदा उल्लंघन कत्तुं न शकितं तदा 'आलोयण'त्ति आलोचना विमर्शो विहितः । ततः सम्पन्नजातिस्मरणस्य सम्बोधिः सम्यक्त्वादिलाभः, तदनन्तरमेव कृतप्रत्याख्यानस्य कालकरणं च देवलोकगमनफलं समजनीति ।।१४८।।
थूभिदे एक चिय कलापडणीयखड़ गुरुसावे । तावस मागहि मोदग मिलाण रागम्मि वेसाली ।।१४९।।
XXXXX
|२६२।।
XXXXXXXXXXX