________________
श्रोउपदे
कर्मजाबु ज्ञातानि
शपदे
XXXXXXXXXXXXXXXX
||१८२।।
kXXRRRRRRRRRXXXKAMARIKARANA
मोत्तियउक्खेवेणं अन्भासा कोलवालपोतणया। घडसगडारुढस्सवि एत्तो चिय. कूवगे धारा ॥२४॥
मात्तिएत्यादि मौत्तिकोत्क्षेपेण मुक्ताफलस्योद्ध र्वोत्पाटनेन अभ्यासात् पुनःपुनः प्रोतनानुशीलनरूपात् 'कोलवालपोतणया इति, कालवाले शूकरकन्धराकेशरूपे प्रोतना प्रवेशनम् । मौक्तिकप्रोतका हि सिद्धतरिक्रया अधस्तादूर्ध्वमुखं क्रोडकेशं धृत्वा उर्ध्वमुखं तथा मौक्तिकं क्षिपन्ति यथा नूनं तत्र प्रवेशं लभत इति । तथा घृतशकटारूढस्यापि निपुणवणिज:, 'एत्तोच्चिय'त्ति, अत एवाभ्यासादेव कुतये धारा घृतप्रवाहरूपा उपरिष्टाद् मुक्तवतोऽपि निपतति ॥२४॥
पवए तरंडचागा सम्मं तरणं नहम्मि वा एयं । तुण्णाए पुण तुण्णण मणायसंधि दुयं चेव ॥२५॥
प्लवकस्तारकस्तरकाण्डत्यागानदीसरोवरादिजणेषु सम्यक् स्वयमब्रुडन्नेव तरणं प्लवनं नभसि वा आकाशे तत्तरणमभ्यासात् करोति । 'तुनाए' इति तुन्नावायस्तुटितवस्त्रादिसंधानकारी पुनः 'तुण्णण' त्ति तुण्णणं वस्त्रसंधानं अज्ञातसंधि परैरनुपलक्षितविभागं द्धतं चैव शीघ्रमेवाभ्यासात् करोति, यथा भगवतः स्कन्धवस्त्रस्य ;तथाहि-भगवान् महावीरः सांवत्सरिकदानपूर्व प्रतिपन्नव्रतस्तत्कालमेव शक्रारोपितस्कन्धप्रदेशदेवदूष्यः कुण्डग्रामाद् बहिर्देशे विहरन् दानकालसन्निहितगृहस्थपर्यायमित्वब्राह्मणेनागत्य प्रार्थनयोपरुद्धः सन् तस्मै देवदूष्याद्ध ददौ । साधिकवर्षान्ते च सुवर्णवालुकानदीतटप्ररूढवृक्षकण्टकाक्षेपाद् भूमौ पपात द्वितीयमर्द्धम् गृहीतं च तत्तेनैव पृष्ठलग्नेन ब्राह्मणेन । समपितं च खण्डद्वितयमपि तन्नवायस्य । तेनापि तथा तदज्ञातसंधि योजितं यथा लब्धप्राच्यलक्षप्रमाणमूल्यं संजातमिति ॥२५॥
२॥