________________
श्रीउपदेशपदे०
वैनयिकी बुद्धिज्ञा०
||१८॥
XXXXXXXXXXXXXXXXXXXXXXX
तेति भणितवतो जिह्वायाश्छेदो दण्डः। 'पडणमो उवरि'त्ति नटमहत्तरकन तथा कश्चित् दण्डी खण्डेनात्मानमुद्वध्य पतनमस्योपरि करोतु । एवं मन्दभाग्यो व्यवहारे प्रवृत्ते ऋजुरिति कृत्वा मन्त्रिणोऽनुकंपा संपन्ना, न पुनरसौ दण्डित इति ॥१२०॥ ॥ समाप्तानि वनयिकीबुद्धिज्ञातानि ॥
॥ नमः श्रुतदेवतायै ॥ अथ कर्मजाबुद्धिज्ञातानि;कम्मयबुद्धीएवि हु हेरण्णियमातिया तदन्भासा। परिसमुवे ति तीसे तत्तो यम्मि लह सिद्धी ॥२१॥
कर्मबुद्धावपि ज्ञातन्युच्यन्ते । तत्र च-'हेरनियमाइया' इति-हैरण्यिकादयः सौवणिकप्रभृतयः कारवः किमित्याहतदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः प्रकर्षाज्ञये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति ।।२१।।
एतदेव भावयितुमाहहेरण्णिओ हिरणं अन्भासाओं णिसिपि जाणेइ । एमेव करिसगोवि हु बीयक्खेवाति परिसुद्धं ॥२२॥
हरण्यिकः हिरण्यपण्यप्रधानो वणिग् हिरण्यं दीनारादिरूपकरूपं अभ्यासात् पुनःपुनरनुशीलनान्निश्यपि रात्रावपि जानाति, यथेदं सुवर्णं पलादिप्रमाणं च वर्त्तते । 'एमेव'त्ति एवमेव 'करिसगोविहु'त्ति कर्षकोऽपि कृषीवललोकः बीजक्षेपादि बीजक्षेपं मुद्गादिबीजवपनरूपम्, आदिशब्दात् क्षेत्रगुणान्, तुल्यान्तरतया च बीजनिपातमुर्ध्वमुखमधोमुखं पार्श्व
॥१८