SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ *************** ।।१७९।। 'गोणे'त्ति गोणो घोडगपडणं च रुक्खाओ इतिद्वारपरामर्शः । तत्र क्वचिद् ग्रामे केनचिन्मन्दभाग्येन निर्वाहोपायान्तरमन्यदलभमानेन मित्राद् याचितैर्बलीवर्दैहलं वाहयितुमारब्धम् । विकाले च तेनानीयते गावो मित्रस्य संबन्धिनि गोवाटके प्रक्षिप्ताः । तच्च मित्त्रं तदा जेमितुमारब्धम् । लज्जया चासौ नोपसर्पितः दृष्टाश्च तेन ते वाटके क्षिप्यमाणाः । अकृततप्तयश्च निर्गतास्ते । ततो हताश्चौरैः गृहीतश्च मन्दभाग्या मित्रेण यथा-समर्पय मे बलीवन् । असमर्पयमाणश्च राजकुले नेतुमारब्धो यावत्तावत् प्रतिपथेन तुरङ्गमारूढ एकः पुरुषः समागच्छति । स च कथंचित्तुरगेण भूमौ । पातितः । पलायमानश्च तुरग आहत आहतेति तदुक्ते तेन मन्दभाग्येन कशा दिना ताडितः क्वचिन्ममणि । मृतश्च तत्क्षणादेव गृहीतश्च तुरङ्गस्वामिनाऽप्यसौ । संपन्नश्च गच्छतामेव विकालः । उषिताश्च नगरबहिरेव । तत्र च केचिन्नटा | आवासिताः सन्ति सुप्ताश्च ते सर्वेऽपि । चिन्तितं च तेन रात्रौ मम नास्ति जीवतो मोक्ष इति वरं आत्मा उद्बद्धः। इति परिभाव्य दण्डिखण्डेन वटवृक्षशाखायां आत्मा उलम्बितः । सा च दण्डिर्दुर्बला झटित्येव त्रुटिता। पतितेन च तेन नटमत्तरको मारितः तैरप्यसौ गृहीतः नीतिकरणे । कथितं च यथावृत्तं तैः । पृष्टोऽसावमात्येन । प्रतिपन्नश्च सर्वम् । ततो मन्त्रिणा निष्प्रतिभाऽयमिति महतीमनुकम्पां तं प्रति कुर्वता प्रस्तुतबुद्धिप्रभावान्न्यायो दृष्टः; यथा-'नेत्तुद्धरणं'इति-बलीवईविषये नेत्रोद्धरणं लोचनोत्पाटः कर्त्तव्यः। अयमभिप्राय:-बलीवर्दस्वामी मन्दभाग्यश्च भणितौ मन्त्रिणा, यथा-द्वावपि भवन्तावपराधिनौ । तत एकस्य बलिवन वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनम्, द्वितीयस्य च वाचा बलीवनिसमर्पितवतो बलीवर्दप्रदानं दण्ड इति 'घोडगजीहाइ' इति-अनेन घोटको दातव्यः। घोटकस्वामिनश्च घोटकमाहताह **RRRRRRRXX) ९।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy