________________
श्रोउपदेशपदे
वैनयिकी बुद्धिज्ञा.
।।१७८।।
शाटिकायां यथा शीता शिशिरा शाटी, किमुक्तं भवति-शीतकार्य ते इति । तथा दीर्घ तृणं द्वाराभिमुखं दत्त्वा सूचयन्ति, यथा-गच्छदीर्घ मार्ग प्रतिपद्यस्वेति यथा कौञ्चस्य मङ्गलार्थं स्नातस्य प्रदक्षिणतयोत्तार्यमाणस्य प्राक् तदानीं 'पइवाणि'त्ति प्रतीपरूपतयोत्तारणं कृतम्-प्रतिकूलं संप्रति ते राजकुलमिति । लेख्याचार्यप्रणामनं कलाचार्यस्य शाट्यादीनां समर्पणां कुर्वतां अवधे अव्यापादने-अद्यापि राज्ञा वधेऽक्रियमाणे इत्यर्थ । तथा शीता शाटी इत्यादिना प्रकारेण सुशिष्याणां कृतज्ञतया सुन्दरान्तेवासिभावं प्राप्तानां वैनयिकीबुद्धिः सम्पन्ना । निस्सृतश्चासावनुपहत एव ।।१८।।
णिन्वोदे पोसियजारखुरकए रत्तितिसियदगमरणे । उज्झय नावियपुच्छा णाएतयगोणसुलद्धो ॥१९॥
'णिव्वोदे' इति नीबोदकेज्ञाततयोपन्यस्ते-पोसियजारखुरकए' इति कयाचित् प्रोषितभर्तृकया जारो विटो गृहे प्रवेशितः, तस्य च क्षुरकर्म नखाद्य द्धरणादिकृतं । कृतेच 'रत्तितिसियदगमरणे' इति रात्रौ तृषितस्सन्नदकं सन्निहितान्यजलाभावे नीव्रसलिलं पायितस्तत्क्षणादेव मरणं तस्य सम्पन्नम् । निश्चिते च तत्र उज्झनं बहिर्देवकुलिकायास्त्यागः कृत। दृष्टश्च लोकेन गवेषितश्च कथमसौ मृत? इति, सद्भावं चालभमानेन तत्र केनचित् सप्रतिभेनोक्तं-नवमे वास्य क्षरकर्म नापितविहितं च दृश्यते ततो लोकेनाहूय नापितानां पृच्छा कृता-केनास्य क्षुरकर्म विहितम् ? इति, कथितं जैकेन यथा-मयामुकस्य गेहे इति । ज्ञाते च पृष्टा सा-किं त्वया मारित ? इति, सा चाह तृषितो मया नीबोदकमेव केवलं पायितः ततो लोकस्य नीवस्थितत्वग्विषगोनसोपलब्धिः प्रस्तुतबुद्धिप्रभावात् संपन्ना ।।१९।।
गोणे णेत्तुद्धरणं घोडगजीहाइ पडणमो उरि । मंदमई ववहारे रिउत्ति मंतिस्स अणुकंपा ॥२०॥
।।१७८॥