________________
॥१६९।।
* यष्टेनंदीजले प्रवहति तारणं कृतं त्रय यो भागा गुरुतर एव बहु बॅडति स मूलमिति ज्ञातम् । मदनवृत्तगोल
कश्चात्युष्णे जले निक्षिप्य मदनगालनेन व्यक्तीभूतद्वारदेशः समुद्घाटितः स्वयं च 'लाबुसिव्वणया' इति अच्छिद्रं महाप्रमाणमेकमलाबु गृहीत्वा सूक्ष्मं च राजिरेखामुत्पाद्य मध्ये रत्ननिक्षेपः कृतः ततो जैनशास्त्रप्रसिद्धचोरसेवन्या स्यूता भणिताश्च ते, यथा-'एतदलाबु अविदारयद्धिः रत्नग्रहः कार्यः'। न शकितश्च तैः सोऽर्थः संपादयितुं प्रस्तुतबुद्धिविकलैरिति ।।१५।।
अगए विसकर जवमेत्त वेज्ज सयवेह हथिवीमंसा । मंतिपडिवक्खअगए दिट्टे पंच्छा पउत्ति उ ॥१६॥
अगर इति द्वारपरामर्शः। कश्चिद्राजा निजपूरोपरोधकारि परबल स्वदेशान्तः प्राप्तं श्रुत्वान्योपायेन तन्निग्रहमनीक्षमाणस्तदागममार्गजलानि विषेण भावयितुमिच्छुः सर्वत्र नगरे, 'विसकर'त्ति विषकरं पातितवान् यथा-पञ्चपलकादिप्रमाणं सर्वेणापि मम भाण्डागारे विषमूपढोकनीयम् । 'जवमित्त'त्ति यवमानं 'विज'त्ति कश्चिद्वैद्यो विषमानीतवान् । कुपितश्च राजा-'किं त्वमेवं मदाज्ञाभङ्गकारी संवृत्तः?' इति । स त्वाह-'तुच्छस्याप्यस्य देव ! 'सयवेह'त्ति शतवेद्यः आत्मनः सकाशात्, उपलक्षणत्वात् सहस्रादिगुणवस्त्वन्तरस्य च वेधः आत्मना परिणयितु शक्तिः समस्ति' । ततो 'हत्थिवीमंस'त्ति-हस्तिनि क्षीणायुषि पूच्छेकवालोत्पाटनं कृत्वा तस्मिन्नियोजनेन विमर्शः कृतः । लग्नं च तद्विषं क्रमेण हस्तिनमभिभवितुम् । मन्त्रिणा चोक्तम् ;-'प्रतिपक्षोऽगदः एतस्य निवर्त्तकमौषधं किं किंचिदस्ति न वा?' इति । अस्ति चेत्, प्रयुक्ष्व । प्रयुक्त च। ततो यावद्विषेणाभिभूयते तावत् पश्चात्प्रयुक्तेनौषधेन प्रगुणीक्रीयते । एवं दृष्टे विषसामर्थ्य पश्चान्मन्त्रिणा प्रयुक्तिस्तु प्रयोगः पुनर्व्यापारणलक्षणः कृतः । अत्र च वैनथिकी बुद्धिर्यन्मन्त्रिणा दृष्टसामर्थ्य विषं व्यापारिमिति ॥१६॥
R
॥१६९।।