________________
॥१६५॥
XXXXXXXXXXXXXXXXXXXXXXXXXX
ब्बलोवि गहिओ सलक्खणो काउं । तो ते तं हसमाणा भणंति कहमेरिसो गहिओ ? ॥१८।। पडिभणियं अह हरिणा जह कज्जसमत्थओ इमो न इमे । अन्नेसिपि बहणं इमेसि संपायगो होही ।।१९।। अस्सवइणो हरिस्स य पत्थुयबुद्धीइ विलसियं एयं । जं सेा घरजामाया अस्सो य वसित्तणं नीओ ॥२०।। इति । ___ अथ गाथाक्षरार्थ:-अश्व इति द्वारपरामर्शः 'रविखय' त्ति--रक्षकोऽश्वरक्षावान् दारकः 'धूय' त्ति--दुहिता चाश्वपतेरेव तत्प्रेरितेन च तेन 'धम्मोवल' त्ति-धर्मोपलै: कुतपमध्यक्षिप्तपाषाणखण्डरूपैर्वृक्षान्मुक्त: 'धीर' त्ति-धीरयोरत्रस्तयोस्तुरङ्गयोर्वेतनदानकाले 'जायणया' इति याचनं कृतम् । शेषस्तु प्रपंच उक्तं एव । अन्ये 'कुमारगहण' इति कुमारः शाम्बादिभिः स्थूलाश्वग्रहणे सति विष्णुना यल्लक्षणयुतस्याश्वस्य दुर्बलस्यापि ग्रहणं कृतम्, तदाहुदृष्टान्ततयेति ।।१२।।
गद्दभतरुणो राया तप्पिय वुड्ढाणऽदसणं कडगे। पिइभत्तणयण वसणे तिसाइ खरमुयणसिरसलिलं ॥१३॥
गर्दभ इति द्वारपरामर्शः । इह तरुणः कश्चिद्राजा 'तप्पिय' त्ति-ते तरुणाः प्रिया यस्य स तत्प्रियः । अन्यदा चासौ विजययात्रायां प्रचलितः । भणितश्च तेन सर्वोऽपि लोकः, यथा-'वुड्ढाणदंसणं कडगे' इति मदीयकटके यथा वृद्धानामदर्शनं भवति तथा भवद्भिः कर्त्तव्यं-वृद्धः कोऽपि नानेतव्यो मदीयकटके इति भावः । तथेति प्रतिपन्नं च तैः। गतश्च सपरिवारोऽसौ विजययात्रायाम् 'पइभत्तणयण'त्ति-पितृभक्तेन चैकेन कटकवासिना नरेण पितर्गप्तस्य नयनं कृतं कटके 'वसणे तिसाई' इति । अन्यदा च तथाविधविजलकान्तारान्तर्गतस्य सैन्यस्य दिनप्रहरद्वयसमये तृषः संबधिनि व्यसने आपतिते सति राजा तांस्तरुणान् पप्रच्छ, यथा-आकर्षयत भोः केनाप्युपायेन सजलां भुवमवगम्य जलमिति । ते च तरुणत्वेनापरिणतबुद्धयो न जानन्ति तदुपायम् । ततो वृद्धगवेषणा कृता। नोपलब्धश्च केनापि
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१६५॥