SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ।। १६३॥ ******** दिष्टखात प्रमाणरूपाराधनेऽपि खातकानां यदा जलं न प्रवर्त्तते तदा तुल्ये खातप्रमाणसदृशे भागे तत्रापि तस्मिन्नेव कूपे तिर्यग्वामदक्षिणादिरूपे आहननं पाष्णिप्रहारादिना ताडनं कृतम् । अयमत्र भावः - क्वचित् कैचिद् ग्रामयकादिभि रतीवस्वादुजलार्थिभिरनन्योपायं जलमवबुध्यमानैः कश्चित् कूपकारस्तथाविधाखनवशेन भूमिगतानि जलान्यवलोकमानः पृष्टः - किमस्यां भुवि जलमस्ति न वा ?' इति । उक्तं च तेन ; - 'निश्चितमस्ति' । तहि कियत्प्रमाणे खाते सति तदभिव्यक्तिमायास्यतीति ? स प्राह- पुरुषदशादी । प्रारब्धश्च तैः कूपः खनितुम् । संपादितं चोक्तप्रमाणं खातम्, तथापि जलानामनागमने निवेदितमस्य किं जलं नोद्गच्छतीति ? तेनापि स्वाञ्जनावन्ध्यरूपतामवगम्य भणितम् ; 'खातप्रमाणसंमितं वामं दक्षिणं वा कूपभागं पार्ष्यादिना प्रहतं कुरूत' । विहितं च तथैव तैः । उद्घटितं च विपुलं जलमिति । अन्ये ब्रुवते इत्युत्तरेण योग, । एवमेवाखनवशेन भूमिगतानि विधानानि कश्चित् पश्यन् केनापि पृष्टः ; 'faमस्मदीयं निधानमत्रास्ति न वा ?' इति । अस्ति चेत्, कियन्त्यां भुवि ? । ततस्तेनापि कूपे भूविवररूपे प्राग्वत् खानिते 'निहाण संपत्तुवायमो' इति निधानसंपत्तेरुपायो हेतुर्वामस्य दक्षिणस्य वा पार्श्वस्य आघातरूपस्तदादिष्टेनैव प्रवत्तितः । लब्धं च निधानमिति एतत्त्विदं पुनः || ११|| आसे रक्खयधूया धम्मोवलरुवखधीरजायणया । अण्णे कुमारगहणे लक्खणजुयगहणमाहंसु ॥१२॥। इह अस्थि समुद्दत डे पारसकूलं जणाणुकूलगुणं । एगो अस्साहिवई तत्थासि विसालविहवजुओ ||१|| अह अन्ना हाणं एगोकुलदारओ कओ रक्खो । अइतिउणविणयसंपाडणेण आनंदिओ तेण ||२|| तस्स य धूया अइरूवमण ।।१६३ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy