________________
अश्व० दृष्टान्त
RRRRRRRR
श्रीउपदे-18 प्रमाणं भवतां विभज्य सुवर्ण राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव द्रव्यं यथा हस्ते भवतां चटिशपदे ष्यते तथा विधास्यते, न कश्चिदसंतोषो विधेयः" । दत्तं च तत्तैः कालान्तरे च महर्षीभूतं विक्रीय कारणिकैस्तद्
द्विगुणादिलाभो राजभाण्डागारे निक्षिप्तः, मूलधनं च तेषामेव समप्पितमिति। अन्ये त्वित्युनुवर्त्तते;-राज्यचिन्तकानां
कुटुम्बचिन्तकानां च प्रस्तुतबुद्धिप्रधानानां पुरुषाणां राज्येषु कुटुम्बेषु च आयस्यापूर्वधनलाभलक्षणस्य व्ययस्य च १६२।।
लब्धधनविनियोगरूपस्य या चिन्ता सा ज्ञातम् । तथेति ज्ञातान्तरसमुच्चयार्थः। मतिमन्तो हि ताम्रालुकावदायव्यययोः * प्रवर्त्तन्ते; तथाहि-ताम्नालुका घृतजलादिमुत्कलेन मुखेन गृह्णाति, व्ययं चातिसंकीर्णमुखेन नालकेन करोति, यतो | बहळयकालोऽल्पश्चायकालः, इतीत्थमेव व्यवहरतां सांगत्यमुत्पद्यते इति । अन्ये तु हृतभौताचार्यसंख्या प्रस्तुतबुद्धि| विषयतया वर्तते इति व्याख्यान्ति; यथा--केनचित्कृपालुना केचिद्भौताचार्याः कांचिद्गम्भीरजलां सरितमुत्तरन्तो | जलपूरेण ह्रियमाणा: समुत्तारिताः। तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकालेव जडत्वेनात्मानं | विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतंसख्या न पूर्यते तदा सविषादमुखास्ते विलपितुमारब्धाः; यथा-एकोऽस्मासु नदीपूरेण हृति इति । भणिताश्च ते संप्रति समीपवत्तिना केनचित्, यथा-भो भवतामात्मा विस्मृतो यदेवं गणनामारब्धमिति ।।१०॥
कूवे सिराइणाणं तुल्ले तत्थवि तिरिच्छमाहणणं । अण्णे णिहाणसंपत्तुवायमोविति एवं तु ॥११॥ कूप इति द्वारपरामर्शः । शिराया जलोद्गमप्रवाहरूपाया ज्ञानमवगमः कथमित्याह-भूमिमध्यगततथाविधकूपकारा
॥१६२॥
KXXXXXXXXXX
KXXXXXXXXXXXX