________________
।। १६१ ।।
खेलनं क्रीडनं तैः सह कृतम् । तेन चाक्षरपातानुरूपतद्गालक प्रतिबिम्ब द्वारेणाक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्यमाणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्त्तमानेन तथा गोलकपातं शिक्षितं या भूमावक्षराणि समुत्पन्नानीति । यद्वा 'पिट्ठिम्मित्ति भूर्यपृष्ठादो लिखितानामक्षराणां यद्वाचनं तद् वैनयिकी बुद्धिः । तथाक्षरबिद्वादिच्युतज्ञानं अक्षरस्य वर्णरूपस्य बिन्दोः प्रसिद्धस्यैवादिशब्दान्मात्रायाः पदादेश्व च्युतस्य पत्रादवलिखितस्य यज्ज्ञानं तदपि वैनयिकी । तत्राक्षरस्य च्युतं यथा; - "गोणायोर्बदरैः पक्वैर्यः प्रदो विधीयते । स तस्य स्वर्गलाभेऽपि मन्ये न स्यात् कदाचन || १ | " बिन्दुच्युतं यथा; - " सोष्माणं कोमलं नव्यं जनः शीतनिपीडितः । हिमर्त्तावी हते को न कबलं मार्गमाश्रितः ? । १।। " इति ॥ ९ ॥
गणि य अंकणासो अण्णे उ सुवण्णजायणं दंडे । आयव्ययचता तह अण्णे उ हियायरियसंखा ।।१०।।
गणिते चेति द्वारपरामर्शः इह च चत्वार्युदाहरणानि तद्यथा - अङ्कनाश: ( १ ), सुवर्णयाचनं (२), आयव्ययचिन्ता (३), हृता भौताचार्याश्चेति ( ४ ), तत्राङ्कनाशः संपन्नः पुनर्लब्धः सञ्ज्ञातम् ; - द्यूतकाराणां द्यूतं रममाणानां तल्लेख्यकं च कुर्वतां यदा कुतोऽपि दुष्प्रयेागात् कस्यचिदङ्कस्य नाशो भवति तदा प्रस्तुतबुद्धिवशेन तेषां पुनरप्यसावुन्मीलतीति अन्ये तु ब्रुवते - सुवर्णयाचनं चामाकरप्रार्थनं दण्डे राजसंबन्धिनि सर्वनगरसाधारणे पतिते सति ज्ञातम् ;
किल क्वचिन्नगरे केनचिन्नरनाथेन दण्डः पातितः, कारणिकैश्च चिन्तितं मा लोक उद्विजतामिति व्युत्पत्त्यासौ ग्राह्यः ततो भणिता नागरिकास्तैः परिमतकालव्यवधानेन सुवर्णं द्विगुणत्रिगुणादिलाभमुत्प्रेक्षमाणैर्यथा; - " दण्डमूल्य
।। १६१।।