SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 'कप्पग' गाथाक्षरार्थ श्रीउपदे- 'गंडाइछेयमेयणया' इति गण्डादिच्छेदभेदनेन गण्डादीनामिक्षयष्टिकलापरूपाणामादिशब्दाद्दधिभाण्डस्य च यथाक्रममुपर्य- शपदे धस्ताच च्छेदेन भेदनेन च प्रतिपक्षप्रहितप्रधानपुरुषस्य मतिमोहसंपादकेनोपन्यस्तेनेति यक्षप्रयुक्तिः सुरप्रिययक्षवार्ता उक्तलक्षणा ज्ञातम् । कथमित्याह-'किच्चपओय अहवा सरावम्मित्ति-कृत्याया नागरिकलोकक्षयलक्षणायाः प्रयोग उप शमनोपायव्यापाररूपः अथवा यदि वा, क्व सतीत्याह-शरावे मल्लके उपलक्षणत्वात् कलशकुचिकावणिकादौ च प्रत्यग्रे ॥१६०॥ चित्रकरदारकेण यो मल्लकादौ नूतने विहिते सति यक्षोपशमनोपाय उपलब्धः स चात्र ज्ञातमिति भावः । अत्र चार्थशास्त्रत्वभावनैवम् ;-परो ह्यवशीभूतः सामादिभिर्नीतिभेदैः सम्यक्प्रयुक्तैर्ग्रहीतव्य:, यथा-"अधीष्व पुत्रक! प्रातस्यामि तव मोदकान् । तान् वान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥१॥ इति । साम च चित्रकरदारकप्रयुक्तो विनय | इति ॥८॥ लेहे लिवीविहाणं वट्टक्खेड्डेणमक्खरालिहणं । पिडिम्मि लिहियवायण मक्खरविदाइ चुयणाणं ॥९॥ लेख इति द्वारोपक्षेपः । तत्र लिपिविधानं लिपिभेदो ज्ञातम् । तच्चाष्टादशधा ;-"हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोद्धव्वा । उड्डी जवणि फुडक्को कीडी दविडी य सिंधविया ॥३॥ मालविणी नडि नागरि लाडलिवी पारसी य बोद्धव्वा। तह अनिमित्ता या चाणक्को मूलदेवी य ॥२॥ तद्देशप्रसिद्धाश्चैताः । तत्र किल केनचिद्राज्ञा कस्यचिदुपाध्यायस्य निजपुत्रा लिपिशिक्षणार्थ समर्पिताः ते च दुर्ललिततया आत्मानं नियन्त्र्य न शिक्षितुमुत्सहन्ते, अपि तु क्रीडन्त्येव । ततो राजोपालम्भभीरुणा उपाध्यायेन 'वट्टक्खेडेणमक्खंरालिहणंति' वृत्तानां खटिकामयगोलकानां ।।१६०11
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy