________________
॥१४॥
कृतेति ।।१०६॥
॥ समाप्तान्योत्पत्तिकीबुद्धिज्ञातानि ॥१॥
॥ नमः श्रुतदेवतायै ॥ अथ वैनयिकीज्ञातानि विवियन्ते;वेणइयाइ निमित्ते सिद्धसुया हत्थिपय विसेसेात्ति । गुम्विणिदाहिणपुत्ते थेरी तज्जायणाणादी ॥७॥
वैनयिक्यां बुद्धौ निमित्ते इति द्वारपरामर्शः । 'सिद्धसुय'त्ति कस्यचित् सिद्धपुत्रस्य पार्श्वे द्वौ सुतौ, "पुत्ता य सीसा* य समं विहत्ता" इति वचनात शिष्यावित्यर्थः, निमित्तशास्त्रं शिक्षितौ, अन्यदा च तृणकाष्ठाद्यर्थमटव्यां प्रविष्टौ। दृष्टानि च ताभ्यां तत्र 'हत्थिपय विसेसात्ति'-हस्तिपदानि, आदिष्टश्चैकेन विशेषो, यथा-हस्तिन्या एवैतानि । कथं ज्ञायते । इति चेत? कायिकोत्सर्गविशेषात् । सा च काणा, एकपार्श्वन तृणानां खादनादिति । तथा 'गुन्विणिदाहिणपुत्त'त्ति तत्र च कायिकोत्सर्गविशेषादेव एका स्त्रीपुरुषश्च विलग्न इति ज्ञायते । पीवरगर्भा च सा, भूमौ हस्तस्तम्भनेनोत्थानात् । दारकश्च भविष्यति तस्याः, येन दक्षिणपादो गुरुको निबिडनिवेशाल्लक्ष्यते दक्षिणकुक्ष्याश्रिते च गर्भे किल पुरुषो भवतीति । तथा रक्ता दशिका मार्गतटवत्तिनि वृक्षे यतो लग्ना दृश्यते, ततोऽपि ज्ञायते पुत्रोत्पत्तिः । मार्गवृक्षलग्ना हि रक्तदशिका मार्गगमनप्रवृत्तगर्भवत्स्वीसंबन्धिनी निमित्तशास्त्रेषु पुत्रोत्पत्तिसूचिका पठ्यत इति । तथा 'थेरी तजायणाणाई' इति तावेव सिद्धपुत्रौ नदीतीरे जलमापीय यावत् स्थितावासाते, तावदेकया स्थविरया जलभृतहस्तघटया संपन्ननैमि
EX******************
।।१४१॥
XXXXX