SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीउपदन शपदे० 'इच्छा ' 'शतसा'० द्वा० ॥१४०।। मे वित्तम । भणितं च तेन-'कोऽत्रा मे भागः ?' तया च सरलस्वभावमवलम्ब्य निगदितम्-'उग्राहय तावत् पश्चाद्यत्ते रोचते तन्मे दद्यास्त्वम्' इति। उद्ग्राहितं च तेन तत्सर्वम् । भागवेलायां च 'असाहु'त्ति असाधौ वञ्चके तुच्छभागदानात्तस्मिन् संपन्ने व्यवहारो राजद्वारि प्रवृत्तः । लब्धवृत्तान्तेन च 'मंतिपरिच्छा' इति मन्त्रिणा परीक्षार्थ पृच्छा कृता-कीदृशं त्वं भागमिच्छसि ?' स प्राह महान्तम् । ततो द्रव्यस्य द्वौ भागौ कृतौ अल्पो महांश्च । तदन्वल्पस्य भागस्य गाहणयत्ति अल्पं भागं ग्राहित इत्यर्थः। किलानया प्रागेवेदमुक्तमास्ते यस्ते रोचते स भागो मे दातव्यः, रोचते च ते महानित्ययमेवास्या दातुमुचित इति, प्रतिपन्ननिर्वाहित्वाच्छिष्टानाम् । यतः पठ्यते;--"अलसायंतेणवि सज्जणेण जे अक्खरा समुल्लविया । ते पत्थरटकुक्कोरियव्य न हु अन्नहा हुति ।।" ।।५।। सयसाहस्सी धुत्तो अपुव्वखोरम्मि लोगडंभणया । तुज्झ पिया मज्झेवं तदण्णधुत्तेण छलणत्ति ।।६।। सयसहसत्ति द्वारे शतसहस्री लक्षप्रमाणधनवान् कश्चिद्भूतः समासीत्। तेन च 'अउव्वखोरम्मि लोगडंभणया' इति “य: कश्चिदपूर्व किंचन मां श्रावयति तस्याहं खोरकं लक्षद्रव्यमूल्यं कच्चोलकमिदं ददामि" एवं च लोकं डम्भयितुमारब्धः, यतो यः कश्चिदभिनवकाव्यादि श्रावयति तत्रापि स "पूर्वमेतन्मे" इति मिथ्योत्तरं कृत्वा तं विलक्षीकरोति । प्रवत्तितश्चात्मनि प्रवादो यथाऽहं सर्वश्रुतपारग इति । श्रुतश्चैष वृत्तान्तस्तत्रस्थेनैकेन सिद्धपुत्रेण । तत्कालोत्पन्नबुद्धिना च तेन तदग्रतो भूत्वा पठितं, यथा-"तुझ पिया मह पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुटवं | दिज्जउ अह न सुयं खोरयं देहि" । एवमनेन प्रकारेण तदन्यधूर्तेण सिद्धपुत्ररूपेण च्छलना बुद्धिपरिभवरूपा तस्य *** EXXXXXXXXXXXXXXXXXXX ॥१४०।। *****XXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy