SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ||१३९॥ SALARRRRRRRRRRRRXXEXXX राजा तेषां न किंचिद्ददाति । ततः 'गम'त्ति अन्यत्र गन्तुमारब्धं तैः । ततः 'थेवदाणगहणंति' स्तोकदानेन परिमितजीविकावितरणरूपेण ग्रहणं स्वीकरणं कृतं केषांचित्। अन्ये तु स्वपौरुषानुरूपां वृत्तिमलभमाना। अन्यत्र गताः । ज्ञातं चौत्पत्तिकीबुद्धिसारेण राज्ञा-'नूनमेते महापराक्रमाः' इति । अन्ये त्वाचार्या इदमित्थमभिदधति;-पक्षवादात् । प्रतिज्ञापूर्वकपक्षवादकरणाच्चतुर्णां शास्त्राणां वैद्यकधर्मार्थकामगोचराणा आत्रेयकापिलबृहस्पतिपाञ्चालनामकऋषिविशेषप्रणीतानां विशेषेण परिज्ञानमवबोध औत्पत्तिकीबुद्धयां कृतम्। किल क्वचित् पाटलिपुत्रादौ नगरे कस्यचिद्राज्ञः क्वचित्समये वैद्यकादिशास्वहस्ताश्चत्वारः प्रवादिनः उपस्थिताः । बभणुश्च यथैतच्छास्त्रावबोधानुरूपां प्रतिपत्तिमस्माकं कर्तुमर्हति महाराजः । परिभावितं च तेन यथा न ज्ञायते कः कीदृश शास्त्रमवबुध्यत इति । तत्परीक्षार्थं प्रतिज्ञोपन्यासपूर्वकं परस्परं वादं कारयितुमारब्धाः । ज्ञातं च तत्र प्रज्ञाप्रकर्षाप्रकर्षों । कृता च तदनुरूपा प्रतिपत्तिरिति । अत्र च सत्थेत्ति निर्देशस्य प्राकृतशैलीवशेन शस्त्रशास्त्रयोरविरोधादित्थं व्याख्यानद्वयं न | दुष्टमिति ॥४॥ इच्छाइ महं रंडा पइरिण तम्मित्तसाहुववहारे । मंतिपरिच्छा दोभाग तयणु अप्पस्स गाहणया ॥५।। . 'इच्छाइ महति द्वारपरामर्शः। किल क्वचिन्नगरे कस्यचित्कुलपुत्रकस्य पत्नी भर्तृमरणे 'रंडे'ति वैधव्यमनुप्राप्ता । सा च 'पइरिणत्ति पत्युभर्तुः संबन्धि यद्वत्तिप्रयुक्तं धनं लोकस्य च देयत्वेन ऋणतया संपन्न तद्ग्राहयितुमारब्धा । न चासो किंचिल्लभते, सर्वपुरुषापेक्षत्वात्सर्वलभ्यानाम् । भणितं च तया तस्य पत्युमित्रं यथोद्ग्राहयाधमणलोकाद् *RXXXXXXXXXXXXXXXXXXXXX ९।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy