________________
a
द्वा०
||१४२।।
श्रीउपदे-त्तिकसुतत्वज्ञानया चिरप्रोषितप्रियपुत्रया तदागमनं पृष्टी-'कदा मे पुत्रः स्वगृहमायास्यतीति ?' तस्मिश्च क्षणे पृच्छा- द्वितीयबु. ___ शपदे व्यग्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा भग्नः । भणितं चैकेन-'तजाएण य तज्ज.यं तन्निभे य तन्निभं' इत्यादि
निमित्त श्लोकमुच्चार्य यथा-मृतस्ते पुत्रः । कथमन्यथाऽयं सद्य एव घटभङ्गो जायेत? इति । द्वितीयेन तु प्रतिपादितं, यथागच्छ वृद्ध ! सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः । गता च सा । दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलकं रूपकांश्च गृहीत्वा सगौरवं सत्कारितोऽसौ द्वितीयः सिद्धसूनुस्तया। इतरश्चादेशविसंवादाद्विलक्षीभूतो गुरुमुपस्थितो निगदति, यथा-'किं न मम इतरतुल्यं सभक्तिकस्यापि निमित्तशास्त्रसद्भावं कथयसि ?, इति । पृष्टौ च तो तेन। कथितं च | ताभ्यां सर्व यथावृत्तम् । गुरुणा च भणितम्-कथं त्वया तस्य मरणमादिष्टम् ? स प्राह-घटविपत्तिदर्शनात् । द्वियीयेन चोक्तम्- 'तजायेण य तज्जायं' इत्यादिश्लोकमुच्चार्य एव-घटो भूमेरेव सकाशादुत्पनो भूम्या एव च मिलितः, एवं स पुत्रो मातुरेव सकाशादुत्पन्नो मातुरेव च मिलित इति निर्णीतं मयेति । भणितश्चासौं गुरुणा यथा भद्र ! नाहमपराध्यामि, किन्तु भवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे । कि न श्रुतं त्वया सूक्तमिदम्, यथा-वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे, न तु खलु तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा । भवति च ॥१४२।। पुनर्भयान भेदः फलं प्रति तद्यथा, प्रभवति मणिबिम्बग्राही शुचिर्न मृदादयः ॥१॥ इति । अत्र च येषां सम्यक शास्त्रं परिणमितं तस्य वैनयिकी बुद्धिरितरस्य तु तदाभासेति ॥७॥
एत्थेव अत्थसत्थे कप्पगगंडाइछेदभेदणया। जक्खपउत्ती किच्चप्पओय अहवा सरावम्मि ॥८॥
XXXXKAKKAKKKKK
XXXXXXX