SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ।। १३७।। तदनु दत्तो निविभागः । प्रतिसमर्पितावितरेणापि पुत्राविति ||१|| सिक्खा य दारपाढे बहुलाहज्वरत्तमारसंवाए । गोमर्यापिडणदीए ठितित्ति तत्तो अवक्कमणं || २ || शिक्षा चेति द्वारपरामर्शः । शिक्षा चात्र धनुर्वेदविषयेाऽभ्यासः । तत्र चैकः कुलपुत्रको धनुर्वेदाभ्यासकुशल : पृथ्वीतलनिभालन कौतुहलेन परिभ्राम्यन् क्वचिन्नगरे कस्यचिदीश्वरस्य गृहमवतीर्णः । गृहस्वामिना च सप्रणयं परिपूज्य बारपाढे' इति स्वकीयदारकपाठे नियुक्तः । तस्य च तान् पाठयतो बहुलभ: संपन्न: । 'ततः अवरत्तमारसंवाए' इति । अपरक्तेन दारकपित्रा तदीयार्थलाभच्छेदनार्थं मारो मरणं संकल्पितं यथा केनाप्युपायेनामुं निर्गमनकाले मारयित्वाऽर्थो ग्रहीष्यत इति । न लभते चासौ गृहान्निर्गन्तुम् । संपादितश्वासौ तेन निजस्वजनानां वृत्तान्तः, यथा - नूनमयं मां मारयितुमभिवाञ्छतीति । तदनु च 'गोमयपिंड नईए ठिइत्तित्ति गोमयपिंडेषु सर्वोऽपि निजोऽर्थः संचारितस्तेन । शोषिताश्च ते पिण्डाः, भणितश्च स्वजनलोक:, यथाऽहं नद्यां गोमयपिण्डकान् मध्यसंगोपितार्थान् प्रक्षेप्स्यामिः भवद्भिश्व ते तरन्तो ग्राह्या इति । ततोऽसावस्माकं कुले स्थितिनतिरीतिरेषा इत्युक्त्वा तिथिषु पर्वदिवसेषु च तैर्दारकं समं तान् नद्यां निक्षिपति । निर्वाहितश्चानेनोपायेन सर्वोऽप्यर्थः 'ततो अवक्कमणं'ति तत एवं कृतोऽपक्रमणं ततः स्थानाल्लब्धावसरेण तेन गमनं कृतमिति || २ || अत्थे बालदुमाया ववहारे देविपुत्तकालोत्ति । अण्णे उ धाउवाइयजोगो सिद्धिइ निवणाणं ॥३॥ अर्थ इति द्वारपरामर्शः । 'बालदुमाया' इति कस्यचिद्वालस्य द्वौ मातरावभूतां । पिता च मृतः । 'ववहारे' ******** ।। १३७ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy