________________
XXXXX
XXXXXXXXXXX
।१३५।।
K*XXXXXX
'नाणेवं चिय'त्ति ज्ञानके इति द्वारोपपः। एवमेव प्राग्ज्ञाते इव किल केनचित् कस्यचिन्निक्षेपकः समर्पितः । तेन च 'पल्लट्र'त्ति नकलकमध्यगतानां पणानां परिवर्तः कृतः । प्रत्यागतेन तेन याचितोऽसौ । लब्धश्च नकुलकः । यावदघाटयति तावन्नवानिक्षिप्तपणान पश्यति । विवदमानौ च तो कारणिकानुपस्थितौ । लब्धवृत्तान्तश्च तैः संपन्नौत्पत्तिकीबुद्धिभिः 'नासकालेण नवर विण्णाणं'ति न्यासकालेन निक्षेपसंवत्सररूपेण नवरं केवलं पणानां ज्ञानं कृतं यथान्ये इमे पणा अल्पद्रव्यत्वात , निक्षेपकाले च टङ्ककसाम्येऽपि अन्ये आसन् बहुद्रव्यत्वात् । तस्मात्प्राच्यपणापलापकारी एष इति निगृहीतः । अत्रैव मतान्तरम् । अन्ये ब्रुवते-'नरिंददेवय'त्ति नरेन्द्रेण केनचिद् द्रव्यलोभिना क्वापि पर्वतविषमप्रदेशे मार्गतत्तिनि यन्त्रप्रयोगेण विचित्राभरणभूषिता देवताप्रतिमा कारिता । ततः सार्थवाहादिलोकस्तेन प्रदेशेन गच्छन कौतुकेन तद्दर्शनार्थं देवकुलगर्भगृहे प्रविशति यदा चासौ तवारि पादनिक्षेपं करोति तदा 'उदाणं टकओ झत्ति' इति-उत्थानं संमुखं चलनं टङ्कात्ततो विषमपर्वतप्रदेशाज्झगित्येव तस्य देवता करोति । एवं च छलेन प्रतिमाचौरस्त्वमिति कृत्वा गृह्यतेऽसौ प्रच्छन्ननियुक्तराजपुरुपैराच्छिद्यते च सर्वमपि धनं ततः सकाशात् । एवमौत्पत्तिकीबुद्धय पायेन राजा द्रव्यसंग्रहं कृतवानिति ।।९९।। भिक्खुम्मिवि एवं चिय भुयंग तब्वेस णास जायणया । अण्णेऽवाउडवसही खरिचीवरडाह उड्डाहो ॥१०॥
'भिक्खुम्मिवि एवंचिय'त्ति भिक्षाविति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि भिक्षुणा कस्यचित्पुरुषस्य संबन्धिनो ग्यासस्यापह्नवः कृत इत्यर्थः । ततस्तेन वञ्चितपुरुषेण 'भुयंग' इति भुजङ्गानां द्यूतकारिणां निवेदितं
॥१३५।।
XXXXXX