SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXX १३३।। यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणराद्यबुद्धिसहायैः 'तव्वेसनास'त्ति | तस्य भिक्षोर्वेषं कृत्वा रक्तपटैर्भूत्वेत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा,-वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्णं निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च ते यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुषेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति. याचनं कृतं स्वकीयनिक्षेपकस्य यथा-मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो! । ततस्तेन यद्यहमेतस्य न्यासं न ढोकयिष्यामि तदा एते न समर्पगिष्यन्ति मम स्वीकीयनिक्षेपकान् वञ्चक मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यू तकार| भिक्षुभिरपि मिषान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रेव मतान्तरम , अन्ये ब्रुवते--यथा कश्चिच्छाक्यभिक्षुः क्वचित् संनिवेशे संध्याकाले मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापूतानां दिगम्बराणां वसतो मठरूपायां रात्रिवासायोपस्थितः । तत्र च प्रागेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उड्डाहो' इति, ततो मुहूर्तान्तरे शयनीयस्थस्य तस्य खरी द्वयक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामुड्डाहयितुमिच्छन्ति । ततो "भावानुरूपफलभाजः सर्ने जीवा" इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलत्प्रदीपशिखानलेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्न्यम्, दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिगम्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिकां यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धरकन्धरेणोच्चस्वरेण च भूत्वा-'यादृशोऽहं तादृशाः सर्वेप्येते' इति ॥१३३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy