________________
XXXXXXXXXXXXX
१३३।।
यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणराद्यबुद्धिसहायैः 'तव्वेसनास'त्ति | तस्य भिक्षोर्वेषं कृत्वा रक्तपटैर्भूत्वेत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा,-वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्णं निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च ते यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुषेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति. याचनं कृतं स्वकीयनिक्षेपकस्य यथा-मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो! । ततस्तेन यद्यहमेतस्य न्यासं न ढोकयिष्यामि तदा एते न समर्पगिष्यन्ति मम स्वीकीयनिक्षेपकान् वञ्चक मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यू तकार| भिक्षुभिरपि मिषान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रेव मतान्तरम , अन्ये ब्रुवते--यथा कश्चिच्छाक्यभिक्षुः क्वचित् संनिवेशे संध्याकाले मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापूतानां दिगम्बराणां वसतो मठरूपायां रात्रिवासायोपस्थितः । तत्र च प्रागेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उड्डाहो' इति, ततो मुहूर्तान्तरे शयनीयस्थस्य तस्य खरी द्वयक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामुड्डाहयितुमिच्छन्ति । ततो "भावानुरूपफलभाजः सर्ने जीवा" इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलत्प्रदीपशिखानलेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्न्यम्, दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिगम्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिकां यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धरकन्धरेणोच्चस्वरेण च भूत्वा-'यादृशोऽहं तादृशाः सर्वेप्येते' इति
॥१३३॥