________________
श्रीउपदेशपदे
।।६।।
पारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूपसंगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसम- दशसुदृष्टा•गोपनेन व्यापारणीयं कुशलरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदपि बालयुव
* न्तेषु १
चोल्लकनित्वादिसर्वावस्थाव्याप्त्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यते ;-"बाल एव धरेद्धर्ममनित्यं
दर्शनम्. खलु जीवितम् । फलानामिव पक्वानां शश्वत् पतनतो भयम् ।।१।। अद्य श्वो वा परश्वो वा श्रोष्यते निपतिव्यतः । परिपक्वफलस्येव वपुषोपि टणक्वकः ।। ३ ॥" मनुजत्वदुर्लभत्वमेवाह ;- .
अइदुल्लहं च एयं चोल्लगपमूहेहि अत्थ समयम्मि । भणियं दिटुंतेहिं अहमवि ते संपविक्खामि ।४।।
अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोल्लक प्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्राहते समये सिद्धान्ते भणितं निरूपितं वर्तते दृष्टांतंरुदाहरणः । यदि नामैवं ततः किमित्याह ;-अहमपि कर्ता, न केवल पूर्वै रेवोक्ता इत्यदिशब्दार्थः, तान चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहुस्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु X. पूर्वेरेवापदेशपदानामुक्तत्वात किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते-पूर्वैस्तत्कालभाविनः प्रौढ
प्रक्षान श्रोतदन स्वयमेव भावार्थप्रतिपत्तिसहानपेक्ष्य भावार्थाविष्करणानादरेण नोपदेशप्रणयनमकारि, संप्रति तु तुच्छबुद्धिः श्रोतृलोको न स्वयमेव भावार्थमवबोद्ध क्षमत इति तदनुर हधिया भावार्थसारयुक्तोपदेशपदणयनं प्रस्तुतमिति ।। ४ ।।
चोल्लकादिदृष्टान्तानेवाहः